SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छंदीपिका अक्षे बिभेदक इत्यपि । अक्षति-व्याप्नोति अक्षः । तत्र । बिभेति बिभेदकः । यदाह-- बिभीतकः कर्षणफलो वासन्तोऽक्षः कलिद्रमः । संवतको भूतवासः कर्षों हार्यो विभेदकः ।। दैन्यः, मधुबीजः, धर्मद्वेषो, कलकः च । भवेत् तमालस्तापिच्छ: ताम्यति तमालः । “ऋकृमृ०" [उ. ४७५] इति आलः । तापिन छा. दयति तापिच्छः । “क्वचित्" [५।१।१७१] इति डः । कालस्कन्धः, रजनः, वसुः च । निर्गुण्ठी सिन्दुवारवत् ॥१०॥ "गुठुण वेष्टे" "नाम्युपान्त्य." [५।११५४] इति के गुण्ठः, निष्क्रान्ता गुण्ठाद् वेष्टनादिति निर्गुण्ठो । स्यन्दते सिन्दुवारः । “द्वारशृङ्गार." [उ. ४११] इति आरे निपात्यते । वदर्थः पूर्ववद् भावनीयः । सिन्दुकः, सिन्धुकः, इन्द्रसुरसः, इन्द्राणी, नीलपुष्पम् , शीतसहः च । आह च - अथ सिन्दुकः। सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ अन्योप्याहसिन्दुवारः सितपुष्पः सिन्धुकः सिन्धुवारितः । नीलपुष्पं शीतसहो निर्गुण्डी नीलसिन्दुकः ॥ ॥१०॥ जपा जवा जपतीव जपा । “जपादीनां पो वः" [२।३।१०५] इति पस्य वत्वे जवा । ओड्रपुष्पम् । मातुलिङ्गो मातुलुङ्गोऽपि कीर्तितः । मा तोल्यते मातुलिङ्गः, मातुलुङ्गः । “माङस्तुलेरुङ्गक च" [उ. १०६] इत्यनेन मापर्वात् "तुलण उन्माने" इत्यस्माद् उङ्गक्-इङ्गप्रत्यययोः साधू । यदाह १ प्रा. गुठिण वेष्टे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy