________________
६४..
श्रोश्रीवल्लभगणिविनिर्मिता "बदरी स्निग्धपत्रा च राष्ट्रवृद्धिकरी तथा" । चन्द्रोऽपि"बदरी गोपघोण्टा च घाण्टा घुट्टा च कोकिला । स्निग्धच्छदा कोलफला" इति ।
हस्वादिश्वाटरूषकः । मटन् रूषयति अटरूषः । पृषोदरादित्वात् साधुः । हस्वः-दीर्धेतरः अकारोऽस्य हस्वादिः । स्वार्थिके के, अटरूषकः । वैद्यमाता, सिंही, सिंहमुखी च । यदाह अमर:-वैधमातृसिंह्यौ तु वाशिका ।
वृषोऽटरूषः सिंहास्यो वासिको वाजिदन्तकः ॥ [२।४।१०३] वजे स्नुहि-स्नुहाऽपि स्यात्
वज्र इव वज्रो भेदकत्वात् तत्र । स्नुह्यति क्षीरम् स्नुहिः । स्त्रीलिङ्गः । "नाम्युपान्त्य०" [उ. ६०९] इति किद् इः । स्नुहा इति वैद्याः । “नाम्युपान्त्य." [५।११५४] इति कः । सुधा, गुडा, समन्तदुग्धा च । आह च
"स्नुक सुधा च महावृक्षो गुडा निस्त्रिंशपत्रकः । समन्तदुग्धा गण्डीरः सिंहुण्डा वजकन्दकः” ॥
प्रियालोऽपि पियालवत् ॥१०२॥ "प्री प्रीतो" प्रीयते प्रियालः । “पींच् पाने" पीयते रसोऽस्य पियालः। उभावपि “कुलिपिलिविशिविडिमृणिकुणिपीप्रीम्यः किद्" [उ. ४७६] इति भाले साधू । चारोलीनाम्नी' । वदर्थः प्राग्वदवसेयः । खरस्कन्धः, सन्नकदुः, धनुःपटश्च । यदाह--
"पियालश्च खरस्कन्धश्वारो बहुलवल्कलः । सन्नकद्रुश्चापपटो ललनस्तापसप्रियः" ॥ इति ॥१०२॥ नार्यङ्गोऽपि नारो नारीम् अङ्गति-याति नार्यङ्गः । अत एव योषिद्वक्त्राधिवासनः । आह च"नारङ्गस्त्वक्सुगन्धः स्यान्नागरङ्गो मुखप्रियः । स चैरावतकः प्रोक्तो योषिद्वक्त्राधिवासनः" ॥
इति । "नृश् नये" नृणाति नारङ्गः । “सवृनभ्यो णित्" [उ. ९९] इति मङ्गः । तत्र ।
१ प्रा. प्रतौ राबादनमाम्नी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org