________________
हैमनाममालाशिलोग्छदीपिका वनस्पतिः, पलक्षुः, मलक्षुः, स्फिविः, रवणः, अरडः, सरडः, स्यमीकः, नेपः, पीतुः च ।
त्वक त्वचा "त्वचत् संवरणे" त्वचति सिरामांसादि त्वक् । विवप् । “अमादेः" [२।४।१६] इति आपि, त्वचा ।
स्तबके पुमः ॥१०॥ गुलुग्छु-लुम्बी
स्तूयते स्तबको गुच्छस्तत्र । दकनसृधृवृमृस्तु०" [उ. २७] इति अकः । गुड्यते गुलुञ्छुः । "केवयुभुरण्य्वध्वर्वादयः" [उ. ७४६] 'उ' प्रत्यये निपात्यते । "लुबु तुबुण भईने" लुम्बयति लुम्बिः । “स्वरेभ्य इ:" [उ. ६०६] इति इः ।
माकन्दरसालावपि चूतवत् । "कदुङ् क्रदुङ् वैक्लव्ये" वैक्लव्यम्-कातरता । वैकल्यम् इति चन्द्रः । मा निषेधार्थकमव्ययम् । मा कन्दते माकन्दः । रसम् अलति रसम् आलाति वा रसालः । च्योतति रसं चूतः । चूण्यत इति श्रीभोजो निरवोचत् । “पुतपित्त." [उ. २०४] इति उते निपात्यते । वदर्थः पूर्ववदवसेयः । मदिरासख-सचेष्ट-कामाङ्गा अपि । यदाह
"आम्रचूतो रसालश्च सचेष्टो मदिरासखः । कामाङ्गः सहकारश्च परपुष्टो मदोत्सवः” ॥ किङ्किराते कुरुण्टक-कुरण्डकावपि स्मृतौ ॥१०१॥
कुत्सितम् किरति-क्षिपति किङ्किरातः । “कृवृकलि." [उ. २०९] इति आतक् । किञ्चित् किरातः किङ्किरातः, तत्र । “रुटु स्तेये” को रुण्टति कुरुण्टकः । “को रुरुण्टिरण्टिभ्यः" [उ. २८] इति अकः प्रत्ययः । को रमते कुरण्डः । “पञ्चमाडः" [उ. १६८] इति डः, स्वार्थे के, कुरण्डकः ॥१.१॥
कर्कन्धरपि कर्कन्धौ
करोति कर्कन्धः । “कृगः कादिः" [उ. ८४९] इति "डुकंग करणे" इत्यस्मात् ककारादिः अन्धूः प्रत्ययः। यद् वा, कर्को लोहितः अन्धुः, कर्कस्य अन्धुरिव वा कर्कन्धः । “उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ" [२।४।७३] इति ऊङि दीर्घः । सीलिगः । पक्षे कर्कन्धुः, कुवली। पुंस्त्रीलिङ्गोऽयम् । तत्र । उभावपि पृषोदरादित्वात् साधू । स्निग्धपत्रा, राष्ट्रवृद्धिकरी, गोपघोण्टा, स्निग्धच्छदा, च । यदाह इन्द:
१. प्रा. प्रतौ वैकल्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org