________________
श्रीश्रीवल्लभगणिविनिर्मिता "शुष्मणि प्रणयनाभिसंस्कृते" । [ ] इति । "सात्मन्नात्मन्वेमन्" [उ. ९१६] इति मनि निपात्यते । बृंहति वर्धते इति बर्हिः । “बंहिबृंहेर्नलुक् च" [उ. ९९०] इति इस् नकारस्य च लुक् । पुंसि । यद् माला-"बर्हिरुक्तो बृहद्भानुः" । इति । यथा-बहिर्मुखा देवाः । बर्हिः दर्भस्तस्मादुत्तिष्ठतीति बर्हिरुत्थः । "स्थापास्नात्रः कः" [५।१।१४२] इति कः । “दमूच् उपशमे" दाम्यति जलेन दमूनाः । “दमेरुनसूनसौ" [उ. ९८७] इति 'ऊनस्' प्रत्ययः । अगति ऊर्ध्वम् याति अग्निः । “वीयुसुवह्यगिभ्यो निः" [उ. ६७७] इति निः । तत्र । तमोहः, भास्करः, प्रभाकरः, पर्परीकः, मर्मरोकः, सृणीकः, यजतः, पचतः, पचनः, संस्पृशानः, मन्दसानः, पिङ्गलः च ।
क्षणप्रभा विद्युत् क्षणम्-क्षणमात्रम् प्रभा अस्याः क्षणप्रभा । विद्योतते विद्युत् । दिद्युत् , सम्पा दन्त्यादिरयम् , तालव्यादिस्तु अभिधानचिन्तामणौ उक्त पद । विपण्युः, क्षिपणुः, खजूः च ।
। समाप्तोऽयं तेजस्कायः ।
अथ. वायुकायमाह
गन्धवाह-सदागती। वायौ
गन्धस्य वाहोऽस्य गन्धवाहः, गन्धम् वहति वा । “कर्मणोऽण" [५।११७२] इति अण् । सदा गतिः-गमनमस्य सदागतिः । “वा गतिगन्धनयोः” “उवै शोषणे" वाति वायति वा द्रव्याणि वायुः । “कृवापाजि." [उ. १] इति उण् । तत्र । प्राकषिक-प्रतीक-क्षिपक-बलाहक-शलाहक-सृणीक-वीक-तरण्ड-सरण्ड-प्राणन्त-बहन्छ शतेर-धूसर-जीर-वीध्र-चुप्र-बताल--भृमल--चलुष-चरण्यु--सरयु-वहति-वायति-अरति-ईष्मजूर्णि तरुणैतश-आशुशुक्षणयोऽपि ।
। समाप्तोऽयं वायुकायः । अथ वनस्पतिकायमाह
चरणपोऽपि द्रुः चरणैः मूलैः पिबति चरणपः । “स्थापास्नात्रः कः" [५।१।१४२] इति कः । “ढुं गतो" द्रवति द्रुः । “धुद्रुम्याम्" [उ. ७४ ४] इति नुः । अधिपः, उद्भिजः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org