________________
हेमनाममालाशिलोम्छदीपिका
पङ्के चिक्खल्ल इत्यपि । पञ्च्यते-विस्तार्यते जलेन पङ्कः । पुंक्लीबलिङ्गः । न्यङ्कादित्वात् कत्वम् । तत्र । खेलति मलम् अत्र चिक्खल्लः । “भिल्लाच्छभल्ल०" [उ. ४६४] इति ले निपात्यते । “चिक् च करोति वल्लम् च भवति चिक्खल्लः" इति नैरुक्ताः । देश्याम् अप्ययम् । खजनः, खलनः, प्रालेयः च ।
उद्घातनमुद्घाटनं घटीयन्त्रं प्रकीर्तितम् ॥१८॥
ऊर्ध्वम् हन्यतेऽनेन उद्घातनम् । “णिति घात्" [४।३।१००] इति घात् इत्यादेशः । ऊर्ध्वम् घात्यते वा अनेन उद्घातनम् । हन्तेः स्वार्थणिजन्तस्य अनटि रूपमिति कौटल्यः । उद्घाटयते'-प्रकाश्यते : जलमनेन उद्घाटनम् । "करणाऽऽधारे" [५।३।१२९] इति अनट् । घटयादोनां यन्त्रम्, घटयो यन्त्र्यन्ते ऽत्रेति वा घटीयन्त्रम्, मालाख्यम्, येन कूपादेर्जलमूर्ध्वम् वाह्यते ॥९८॥
सरस्तडाकस्तटाकोऽपि
सरति जलम् अत्र सरः । “अस्" [उ. ९५२] इति अस् । “तडण् आघाते" ताडयते जलमस्मिस्तडाकः । "तट उच्छ्राये" तटति जलमत्र तटाकः । उभावपि "शलिबलिपतिवृतिनभिपटितटितडि." [उ. ३४] इत्यादिना आके प्रत्यये साधू । खानिः, खनिः, खात्रम् च ।
अथ तल्लश्च पल्वले। तत् लाति-गृह्णाति तल्लः, तलति वा । "भिल्लाच्छभल्ल." [उ. ४६४] इति ले निपात्यते । देश्याम् अप्ययम् । “पल गतौ" पल्यते पल्वलः । 'क्लीकलिङ्गः । “शमिकमिपलिभ्यो वलः" [उ. १९९] इति वलः । तत्र पल्घले, अकृत्रिमोदकस्थानविशेषे ।
। समाप्तोऽयम् अपकायः । अथ तेजःकायमाह-- आशयाश-शुष्म-बर्हिर-बर्हिरुत्थ-दमूनसः ॥९९॥ अग्नौ
आशयम्-आधारम् अश्नाति-अत्ति आशयाशः । “अच्" [५।११४९] इति अच् । शुष्यति अनेन शुष्मा । यथा
१. उषाटप । २. जे. ताब्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org