________________
श्रीश्रीवल्लभगणिधिनिर्मिता
जहनुकन्याऽपि जाह्नवी ॥९६॥ जहोः-सगरात्मजस्य कन्या जहनुकन्या । जनुना पीता श्रोत्रेण मुक्ता इति लौकिकाः । जहोरियं जाह्नवी, गङ्गा, जनुनाऽवतारितत्वात् । "तस्येदम" [६॥३॥१६०] इति अण् । “अणजेये." [२।४।२०] इति ङीः ॥९६॥
कलिन्दपुत्री कालिन्दी
कलिन्दाढ़ेः पुत्री कलिन्दपुत्री, कलिन्दतनयाऽपि । कलिन्दादेरियं कालिन्दी । "तस्येदम्" [६।३।१६०] इति अण् । “अणजेये." [२।४।२०] इति ङीः । यमुनानाम्नी । सूर्यतनया, शमनस्वसा च ।
रेवा मेकलकन्यका । रेवते वेगेन गच्छति रेवा । मेकलाद्रेः कन्यका मेकलकन्यका । सोमोद्भवाऽपि ।
चन्द्रभागा चन्द्रभागी
चन्द्रेण भागतो न्यस्ता चन्द्रभागा, चन्द्रभागी नदी। शोणादिपाठबलाद विकल्पेन डीः। अण्प्रत्ययान्ताद् नद्याम् इति एके। तत्रैवं व्याख्या-चन्द्र इव भागो यस्य स चन्द्रभागो गिरिः, ततः प्रभवति आगता वा चान्द्रभागा, चान्द्रभागी । "प्रभवति" [६।३।१५७] इति अण् “तत आगते" [६।३।१४९] इति अण् वा । अणन्तत्वात् नित्यं प्राप्ते विकल्पः । अनद्यास्तु नित्यं ङीः स्यादेव । यथाचान्द्रभागी छाया । अन्ये तु अणन्तादेवार्थभेदेन विकल्पमिच्छन्ति । नवाम् 'आप' प्रत्ययोऽन्यत्र 'डी' प्रत्ययः। चान्द्रभागा नदी', चान्द्रभागी', वनराजिरिति ।
गोमती गौतमीत्यपि । ९७॥ गावः जलानि सन्ति अस्यां गोमती। "तदस्यास्त्यस्मिन्निति मतुः [७।२।१ इति मतुः प्रत्ययः । गोतमस्य ऋषेरियं गौतमी । "तस्येदम् [६।३।१६०] इति अण् । “अणजेये." [२।४।२०] इति ङीः ॥९७॥
चक्राण्यपि पुटभेदाः
क्रियते तृणादिसंघातनाश एभिरिति चक्राणि । "कृगो द्वे च" [उ. ७] इति अः प्रत्ययः धातोश्च द्वे रूपे भवतः । पुटम्-तृणादिसङ्घातम् भिन्दन्ति पुटभेदाः।
१.जे. प्रतौ 'चान्द्रभागा नदी' शब्दो नास्ति । २. जे. चान्द्राभागी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org