Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 109
________________ ७२ प्रोबीवक्ताभगणिधिनिर्मिता अमरः । वृष्णिः, वरुटः, वरुडः, गण्डयन्तः, अमतिः च । - अथ भषकः शुनिः। भषति भुक्कति भषकः । “तिक्कृतौ नाम्नि" [५।११७१]इति अकट । “भष भर्सने" भर्सनम् -कुत्सितशब्दकरणम्, अतो भर्त्सने शब्दकर्मकोऽयम् । शुनति गच्छति शुनिः । “नाम्युपान्त्य." [उ.६०९] इति किद् इः । दशेरः, भटिलः, भण्डिलः, चण्डिलः, लेहडः, गृत्सः च । सरमा देवशुन्यां च सरति गच्छति सरमा । “सृपप्रथिचरि०" [उ.३४७] इति अमः । देवानाम् शुनी देवशुनी, तस्याम् । विशेषवृत्तिरयं सामान्येऽप्यभिधीयते । यमरथोऽपि सैरिभे ॥११॥ यमस्य रथो यमरथः । सीयते-बध्यते सैरिभः । “सि-टिकिभ्यामिभः सर- टिटो च" [उ. ३३२] इत्यनेन इमः प्रत्ययः । “पिंगट बन्धने" इत्यस्य दन्त्यादिः, 'सैर' इत्यादेशश्च । सीरिभिः-दान्तै ति सीरिभः, तस्यायमिति वा । “तस्येदम्" [६।३.१६०] इति अण्, तस्मिन् सैरिभे-महिषे गर्वरोऽपि ॥११३॥ पारिन्द्र इव पारीन्द्रः पारिषु शक्तेषु इन्द्रः पारिन्द्रः ।। पृषोदरादित्वाद् हस्वः । हस्वाभाषेच पारीन्द्रः । सिंहः, नदनुः, मृगेन्द्रः, कपिलाक्षः च । इव शब्दो वदर्थवाचकः ।। . शरमेऽष्टापदोऽपि च । “शशू हिंसायाम्" शृणाति हस्तिनम् शरभः । “कृशृगृशलिकलि." [उ.३२९] इति अभः, तत्र । अष्टौ पदानि अस्य अष्टापदः । "नाम्नि" [३।२।७५] इति दीर्घः। कर्वरोऽपि । मुगालवच्छृगालोऽपि सरति गच्छति भयेन सृगालः । “सर्तेोऽन्तश्च" [उ.४७८] इति आलः । असृगाऽऽलीयते, असृग् गिलतीति वा सृगालः । पृषोदरादित्वात् । शणाति शृगालः, तालव्यादिरयम् । “चात्वालकङ्काल." [उ.४ ८०] इति आले निपात्यते । प्लवगः प्रवगोऽपि च ॥११॥ प्लवेन गच्छति प्लवगः । प्रवेण गच्छति प्रवगः । प्लवप्रवौ गतिविशेषवाचको। १. प्रा. अमन्तिश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170