Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 88
________________ चतुर्थः तिर्यक्काण्डः अथ तिर्यकाण्डस्य शिलोञ्छो वित्रियते-तत्र पृथिव्यप्तेजोवायुवनस्पतिभेदेनैकेन्द्रियाः स्थावराः, द्वित्रिचतुःपञ्चेन्द्रियभेदेन त्रसाश्च कृमिप्रभृतयस्तिर्यञ्चो वक्ष्यन्ते । तत्र प्रथमं पृथिवीकायिकानाहे रत्नवती भुवि रत्नानि विद्यन्तेऽस्यां रत्नवती । “तदस्यास्त्यस्मिन्निति मतुः" [७।२।१] इति मतुः । भवत्यस्याः सर्वम् इति भूः । “भ्यादिभ्यो वा" [५।३।११५] इति क्विम् । तस्याम् । इडा, अम्बा, उर्वरा अयं सर्वसस्यायाम् , भुवि अपि, दक्षा, स्थाया, कुडुमा, गृहतुः, सहुरिः, कर्वरी, अव्यथिषी च इत्यादयोऽपि । दिवःपृथिव्यावपि रोदसी । घौश्च पृथिवी च दिवःपृथिव्यौ । “दिवस-दिवः पृथिव्यां वा" [३।२।४५] इति दिवः इत्यादेशः । रुदन्त्यनयोः रोदसी । “अस्" [उ.९५२] इति अस् । गौरादित्वाद् ङीः । क्लीबलिङ्गो द्विवचनान्तः । इदन्ताद् रोदसिशब्दाद् वा द्विवचने रोदसी। यदाह उत्पल:-“द्यावापृथिव्योद्विवचने रोदसिशब्दे इवर्णान्तादेशः पृषोदरादित्वात्" [ ] इति । रोदसीत्यव्ययमपि । द्यावाक्ष्मे जनित्वम् , नेत्वम् च । माणिबन्धं माणिमन्तं सैन्धवे मणिबन्धे गिरौ भवं माणिबन्धम् । मणिमन्ते गिरौ भवं माणिमन्तम् । उभयत्र "भवे" [६।३।१२३] इति अण् । सिन्धुनधुपलक्षिते देशे भवं सैन्धवम् । “भवे" [६।३।१२३] इति अण् । पुंक्लीबलिङ्गः । तत्र । वसुके वसु ॥८॥ वसति वसु । “भृमृतृत्सरितनिधन्यनिमनि०" [उ.७१६] इति उः प्रत्ययः स्वार्थिके के च, वसुकम् । बस्तकनाम लवणम् । तत्र । यदाह मालाकार:-"रोमके वसुकं वसु ।" [ ] इति ॥८३॥ टङ्कनष्टङ्कणः "टकुण् बन्धने" टङ्कयति टङ्कनः । “णिवेत्त्यासश्रन्थघट्टवन्देरनः" [५।३।१११] इति अनः । टङ्कयते अनेन वा । “करणाऽऽधारे" [५।३।१२९] इति अनट् । “पुन्नाम्नि" [५।३।१३०] इति घे, टङ्कोऽपि । टङ्कयति टङ्कणः । “चिक्कण-कुक्कणकृकण." [उ. १९०] इति अणे निपात्यते । १. पृथिवीकायकामाह । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170