________________
चतुर्थः तिर्यक्काण्डः अथ तिर्यकाण्डस्य शिलोञ्छो वित्रियते-तत्र पृथिव्यप्तेजोवायुवनस्पतिभेदेनैकेन्द्रियाः स्थावराः, द्वित्रिचतुःपञ्चेन्द्रियभेदेन त्रसाश्च कृमिप्रभृतयस्तिर्यञ्चो वक्ष्यन्ते । तत्र प्रथमं पृथिवीकायिकानाहे
रत्नवती भुवि
रत्नानि विद्यन्तेऽस्यां रत्नवती । “तदस्यास्त्यस्मिन्निति मतुः" [७।२।१] इति मतुः । भवत्यस्याः सर्वम् इति भूः । “भ्यादिभ्यो वा" [५।३।११५] इति क्विम् । तस्याम् । इडा, अम्बा, उर्वरा अयं सर्वसस्यायाम् , भुवि अपि, दक्षा, स्थाया, कुडुमा, गृहतुः, सहुरिः, कर्वरी, अव्यथिषी च इत्यादयोऽपि ।
दिवःपृथिव्यावपि रोदसी । घौश्च पृथिवी च दिवःपृथिव्यौ । “दिवस-दिवः पृथिव्यां वा" [३।२।४५] इति दिवः इत्यादेशः । रुदन्त्यनयोः रोदसी । “अस्" [उ.९५२] इति अस् । गौरादित्वाद् ङीः । क्लीबलिङ्गो द्विवचनान्तः । इदन्ताद् रोदसिशब्दाद् वा द्विवचने रोदसी। यदाह उत्पल:-“द्यावापृथिव्योद्विवचने रोदसिशब्दे इवर्णान्तादेशः पृषोदरादित्वात्" [ ] इति । रोदसीत्यव्ययमपि । द्यावाक्ष्मे जनित्वम् , नेत्वम् च ।
माणिबन्धं माणिमन्तं सैन्धवे
मणिबन्धे गिरौ भवं माणिबन्धम् । मणिमन्ते गिरौ भवं माणिमन्तम् । उभयत्र "भवे" [६।३।१२३] इति अण् । सिन्धुनधुपलक्षिते देशे भवं सैन्धवम् । “भवे" [६।३।१२३] इति अण् । पुंक्लीबलिङ्गः । तत्र ।
वसुके वसु ॥८॥ वसति वसु । “भृमृतृत्सरितनिधन्यनिमनि०" [उ.७१६] इति उः प्रत्ययः स्वार्थिके के च, वसुकम् । बस्तकनाम लवणम् । तत्र । यदाह मालाकार:-"रोमके वसुकं वसु ।" [ ] इति ॥८३॥
टङ्कनष्टङ्कणः
"टकुण् बन्धने" टङ्कयति टङ्कनः । “णिवेत्त्यासश्रन्थघट्टवन्देरनः" [५।३।१११] इति अनः । टङ्कयते अनेन वा । “करणाऽऽधारे" [५।३।१२९] इति अनट् । “पुन्नाम्नि" [५।३।१३०] इति घे, टङ्कोऽपि । टङ्कयति टङ्कणः । “चिक्कण-कुक्कणकृकण." [उ. १९०] इति अणे निपात्यते ।
१. पृथिवीकायकामाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org