SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता उपावर्तनं चापि नीवृति उपावर्तन्तेऽस्मिन्निति उपावर्तनम् । “करणाऽऽधारे" [५।३।१२९] इति अनट् । नियतम् वर्तन्ते अस्यां नीवृत् । “गतिकारकस्य." [३।२।८५] इति क्विपि दीर्घः । स्त्रीलिङ्गः। अमरस्तु पुंस्याह । तस्याम् । अमरस्तु-"नीवृज्जनपदौ देशविषयौ तूपवर्तनम्" [२।१।८] इति भिन्नमाह । भङ्गाल-रमठे-वर्तनयश्च । जङ्गलः स्याज्जाङ्गलोऽपि जायन्ते स्थलानि अत्र जङ्गलः । “ऋजनेर्गोऽन्तश्च" [उ.४६७] इति अलः । गकारश्चान्तः । जङ्गल एव जाङ्गलः । प्रज्ञादित्वाद् अण् । निर्जलदेशनाम्नी । मालवन्मालको मतः॥८४॥ मलन्ते धरन्ति भयम् अत्र मालम् । “मांक माने, मीयते वा" "शामाश्याशकि." [उ.४६२] इति अलः । स्वार्थिके के, मालकः । पुंक्लीबलिङ्गः । ग्रामस्यान्तगलेऽटवी । वदर्थः पूर्ववदवसेयः ॥८४॥ पत्तने पट्टनमपि "पतल गतौ" पतन्ति विविधदेशपण्यान्यागत्य अस्मिन्निति पत्तनम् नगरम् । "पत्तनम् रत्नभूमिः" इत्याहुः अपरें । तत्र । “पट गतौ” पटन्ति अस्मिन्निति पट्टनम् । उभयत्र “वीपतिपटिभ्यस्तनः" [उ.२९२] इति तनः । पटन्ति अत्रेति पटुमोऽपि । "कुन्दुम-लिन्दुम-कुङ्कुम-विद्रुम-पटुमादयः" [उ.३५२] इति 'कुम' प्रत्ययान्तो निपात्यते । मन्दिरम् अजिरम् च । कुण्डिने कुण्डिनापुरम् । स्यात्कुण्डिनपुरमपि "कुडुङ् दाहे" कुण्ड्यते पापम् अत्र कुण्डिनम् । “श्याकठिखलिनल्यविकुण्डिभ्य इनः" [उ.२८२] इति इनः । तस्मिन् कुण्डिने । कुण्डिना च तत्पुरं च कुण्डिनापुरम् । “विपिनाजिनादयः" [उ. २८४] इति इने निपातनात् । “कुण्डिन" इति वामनः प्राह । कुण्डिनम् च तत्पुरम् च कुण्डिनपुरम् । विदर्भनगरीनामानि । विपणौ पण्यवीथिका ॥८५॥ विपण्यन्तेऽस्यामिति विपणिः, वणिग्मार्गः, तत्र । यत् शाश्वतः १.ज. प्रती 'मङ्गलरपठवर्तनयश्च' इति पाठः । २. प्रा. प्रती 'विविधदेशपण्यान्यागत्य' इति पाठो नास्ति । ३. प्रा. प्रतौ 'पत्तन रत्नभूमिरित्याहुरपरे' इति पाठो नास्ति । ४. जे. पट्टमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy