SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका "आपणः पण्यवीथी च द्वयं विपणिसंज्ञकम्" [ ] । स्त्रीलिङ्गः । “पदिपठि." [उ. ६०७] इति इः । तस्याम् । पण्यस्य वीथिः पण्यवीथिः । स्वार्थिके के, पण्यवीथिका । वणिग्वीथी, हट्टवर्तनी च ॥८५॥ सुरुङ्गायां सन्धिरपि सरति-गच्छति अनया सुरुङ्गा । “सर्तेः सुर्च" [उ. १०८] इति उङ्गः । तस्याम् । सन्धीयतेऽस्मिन् सन्धिः । “उपसर्गाद् दः किः" [५।३।८७] पुंलिङ्गः । गृहे धाममपि स्मृतम् । गृह्णाति पुरुषोपार्जितं द्रव्यम् इति गृहम् । “गेहे ग्रहः" [५।११५५] इति कः । पुंक्लीबलिङ्गस्तत्र । दधाति आश्रयमस्मिन् इति धामम् । “अरिस्तुसुहु." [उ. ३३८] इत्यादिना मः। क्लीबलिङ्गः । कुटीरः, अररः, अजिरम्, सार्त्रम्, पल्लिः अयं मुन्याश्रमव्याधयोरपि, वसिः, भविलः, विशिपम्, वैष्ट्रम् च । “हने रन् ध च" *[ ] इत्यनेन पाणिनीयसूत्रेण "हन् हिंसागत्योः" इत्यस्य 'ध' आदेशे रनि प्रत्यये धरोऽपि। उपकार्योंपकर्यापि उपक्रियते-उपष्टभ्यते उपकार्या । "ऋवर्णव्यञ्जन." [५।१।१७] इति ग्यण् । “शिक्यास्याढ्यमध्य०" [उ. ३६४] इति ये निपातनात् उपकर्या । यद् वा, उपकरणम् उपकरः । अल् । तत्र साध्वी उपकर्या । "तत्र साधौ" [७१।१५] इति यः । पटमण्डपादि राजसदनम् । उक्तं च'गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका' । [ ] इति । प्रासादे च प्रसादनः ॥८६॥ प्रसीदन्ति नयन-मनांसि अस्मिन्निति प्रासादः । “घञ्युपसर्गस्य." [३।२।८६] इति दीर्घः । प्रसादयति प्रसादनः । देवभूपानां गृहम् ॥८६॥ शान्तीगृहं शान्तिगृहे शान्त्यै गृहम् शान्तिगृहम् । तत्र । शान्तीगृहम् इत्यत्र बाहुलकाद् दीर्घः, "तिक्कृतौ नाम्नि" [५।१।७१] इति 'तिक्' प्रत्यये "इतोऽक्त्यर्थाद" [२।४।३२] इति ङ्यां च शान्ती शान्तिस्तस्यै गृहम् इति वा । यदाह वाचस्पतिः"माथर्वणं शान्तिगृहं शान्तीगृहकमप्यदः" [ ] । इति । प्राङ्गणं त्वङ्गणं मतम् । *मुद्रितपाणिनीयसूत्रेष्विदं सूत्रं नैवावलोक्यते, अतः शोधनीयमिदं सूत्रम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy