________________
श्रीश्रीवल्लभगणिविनिर्मिता
“ अगु गतौ ” प्राङ्गन्ति अत्र प्राङ्गणम् । " करणाssधारे " [५|३|१२९] इति अनट् । अङ्गन्ति अत्र अङ्गणम् । “तृकृश ० " [उ. १८७ ] इति अणः । मतम् - सम्मतम् ।
कपाटवत् कवाटोsपि
कम्पते -चलति कपाटः । " कपाटविराट ० " [ उ. १४८] इति - आटे निपात्यते । कम् - शिरः पाटयति प्रविशतामिति वा कपाटः । "जपादीनां पो वः " [२|३|१०५] इति पस्य वत्वे कवाटः । त्रिलिङ्गः । वदर्थः पूर्ववदवसेयः । पक्षद्वारे खटक्किका ॥८७॥ पक्षस्य द्वारम् पक्षद्वारम्, पार्श्वद्वारम् । यदाह कात्यः-" प्रच्छन्नमन्तरद्वारं पक्षद्वारं तदुच्यते" । [ ] इति । तत्र । “खट काङ्क्षे " खट्यते--काङ्क्षयते खटक्का । "निष्कतुरुष्क ० " [उ. २६] इति कान्तो निपात्यते । स्वार्थिके के, खटक्किका । "ङयादीदूतः के” [२|४|१०४] इति ह्रस्वः ॥ ८७॥ कुशुलवत् कुसूलोऽपि
"कुशच् श्लेषणे" कुश्यते धान्येन कुशूलः । तालव्यमध्यः । “कुसच् श्लेषे" कुस्यते धान्येन कुसूलः । दन्त्यमध्यः । उभावपि “कुलिपुलिकुसिभ्यः किद्” [उ. ४९०] इति कि ऊले साधू । वदर्थः पूर्ववत् । धान्यकोष्टनाम्नी । बलतः धान्यावरोधश्च ।
समुद्गे तु पुटो मतः ।
“उब्जत् आर्जवे” समुब्ज्यते समुद्गः । “भावाऽकर्त्रीः” । [५।३।१८] घञ्, उद्गादित्वाद् गत्वम् । न्यङ्क्वादित्वाद् वा निपात्यते । समुद्गच्छतीति वा । “क्वचित्" [५|१|१७१] इति डः । तत्र । पुटयते श्लिष्यते पुटः । “नाम्युपान्त्य ० " [ ५/१/५ ] इति कः । भूषणाद्यावपनम् ।
पेटायां स्यात् पेटकोsपि पेडाऽपि कृतिनां मते ॥८८॥ " पिट् शब्दे च चकारात् संहतौ " पेटति पेटा | लिहादित्वाद् अच् । पे पेटकः । “छिदिभिदिपिटेर्वा" [उ. ३०] इति अकः । पेट एव वा । पुंक्लीबलिङ्गः । स्त्रियां पेटिका इत्यन्यः । केचिदेनं पेडा इति सिद्धयर्थं डान्तं पठन्ति । अमरस्तु"पीडण् गहने " इत्यस्य पेडा इत्याह । कृतिनाम् - विदुषाम् मते ॥८८॥
पवन्यपि समूहन्याम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org