________________
हैमनाममालाशिलोञ्छदीपिका
पूयते - शोध्यते गृहम् अनयेति पवनी । " करणाssधारे" [५।३।१२९] इति अनट् । समुह्यते रजोऽनया समूहनी, बहुकरीं । " करणाssधारे " [५|३|१२९] इति अनट् तस्याम् । अयोनिं मुसलं विदुः ।
न विद्यते योनिः अस्य अयोनिः । अयो- लोहम् नयति - प्राप्नोति मुखे वा । पृषोदरादित्वात् साधुः । अयसा - लोहेन अनिति - प्राणितीति वा । " पदिपठि०" [उ. ६०७ ] इत्यादिशब्दाद् इः । यदाह वैजयन्तीकारः -
“अयोनिर्मुसलोsस्त्री स्यात् " [ ] । इति । मुस्यते - खण्ड्यतेऽनेन मुसलः । "तृपिवपिकुपिकुशि ०" [उ. ४६८ ] इत्यादिना किद् भलः । मुहुः वारंवारं स्वनम् लाति, मुहुर्मुहुर्लसतीति वा मुसलः । पृषोदरादित्वात् साधुः । क्षोताऽपि । ऋकारान्तोऽयम् । मुषलौऽपि । कण्डोलके पिटकोऽपि
" कडुड् मदे" कण्ड्य ते कण्डोलः । वंशदलादिमयं भाण्डम् | तत्र । “कटिपटिकण्डिगण्डि ०" [ उ. ४९३] इति ओलः । "पिट शब्दे च" पेटति पिटम् । "नाम्युपान्त्य ० " [ ५|१|५४ ] इति कः । पुंक्लीबलिङ्गः । स्वार्थिके के, पिटकः । पिटति वा पिटकः । “छिदिभिदि पिटेर्वा" [उ. ३०] इति किद् भकः ।
चुल्ल्यामन्तीति कथ्यते ॥ ८९ ॥ " चुल्ल हावकरणे" चुल्लतीव ज्वालाभिरिति चुल्लिः । “किलिपिलिपिशिचिटि०" [उ. ६०८] इत्यादिना इः । तस्याम् " अतु बन्धने" अन्तति - बध्नाति हिम् अन्तिः । “पदिपठिपचि ०" [ उ. ६०७] इत्यादिशब्दाद् इः प्रत्ययः । " इतोऽक्त्यर्थाद्” [२।४।३२] इति ङयाम्, अन्ती । यदाह मालाकार :"अन्त्यधिश्रयणी भवेत्" । [ ] इति ।
केचिदेनम् इन्नन्तमिच्छन्ति, तत्रैवम्, अन्तोऽस्यास्तीति अन्ती । पुंलिङ्गः। 'इतिः' अवधारणे, कथ्यते - उच्यते विद्वद्भिरिति गम्यम् | सूर्मी इत्यपि ॥ ८९ ॥
:
•
खजः खजाकोऽपि मथि ।
" खज मन्थे” खजति मध्नाति स्वजः । " अच्” [ ५|१|४९] इति अच् प्रत्ययः । स्वजन्ति अनेनेति खजाकः । " शलिबलिप तिवृति ०" [उ. ३४] इति 'आकः । मथ्यतेऽनेन मन्थाः । " पथिमन्थिभ्याम् " [उ. ९२६ ] इति इन् । तस्मिन् । मथि मन्थाने खजपोऽपि च ।
Jain Education International
५५
For Private & Personal Use Only
www.jainelibrary.org