________________
श्रोश्रीवल्लभगणिविनिर्मिता
विष्कम्भः कुटकोऽस्य तु । अस्य मथः, विष्कम्नाति-बध्नातीति विष्कम्भो दण्डको यस्मिन् बदा मन्था आकृष्यते । “कुटत् कौटिल्ये" कुटति कुटः । “नाम्युपान्त्य०" [५।११५४] इति कः । स्वार्थे के, कुटकः । णके प्रत्यये वा कुटादित्वाद् गुणाभावः । मन्दीरम् देश्याम् ।
अगोऽपि पर्वते ___ न गच्छति अगः, स्थावरत्वात् । “क्वचित्" [५।१।१८१] इति डः। अगति वा । “अच्" [५।१।४९] इति अच् । पर्व्यते-पूर्यते शिलाभिः पर्वतः । "दृपृभृमृशीयजि०" [उ. २०७] इत्यादिना अतः । तत्र । अविः, जीमूतः, बलाहकः, दईरः, माहूरः, सहिरः आदिदन्त्योऽयम्, वर्द्धसानः मध्यदन्त्योऽयम्, वटम्बः, शयानकः तालव्यादिरयम्, सहान्यः दन्त्यादिरयम्, धृत्वा नन्तोऽयम्, सद्रिः सद्रुश्च उभावपि दन्त्यादी ।
___ कौजः क्रौञ्चवद् मन्यते बुधैः ॥९०॥ कुञ्जस्य-पर्वतैकदेशस्याऽयं कौञ्जः । "तस्येदम्" [६।३।१६०] इति अण् । "क्रुञ्च गतौ" क्रुञ्चति क्रुञ्चः । प्रज्ञावणि, क्रौञ्चः । बुधैः-विद्वद्भिः मन्यते ॥९॥
कक्खटयपि खटिन्यां स्यात्
"कक्ख हसने" कक्खतीव श्वेतत्वात् कक्खटी। “दिव्यवि." [उ. १४२] इति अटः । खटः आकाङ्क्षकोऽस्त्यस्याः खटिनी, खटी, तस्याम् ।
ताम्रमौदुम्बरं विदुः। ताम्यति वह्निना ताम्रम् । “चिजिशुसि." [उ.३९२] इति रः। उनत्ति क्लियते वह्निना उदुम्बरम् । “तीवरधीवरपीवर०" [उ. ४४४] इत्यादिना वरट् प्रत्ययः । उन्देर्धातोश्च किद् उनन्तः । उद्गतं वरम् उदुम्बरम् इति नैरुक्ताः । तत उदुम्बरमेव औदुम्बरम् । प्रज्ञादित्वाद् अण् । नागमधुकेऽपि ।
शातकौम्भमपि स्वर्णे
शतकुम्मे गिरौ भवं शातकौम्भम् । अनुशतिकादित्वाद् उभयपदवृद्धिः । शोभनो वर्णोऽस्य स्वर्णम् । पृषोदरादित्वात् वलोपः । तत्र । चाम्पेयः, अवष्ठम्भः, किरीटम्, कृपीटम्, पीयुः, पुष्कलम्, रुचिष्यः, शादः तालव्यादिरयम्, सानसिः, रीतम्, पारक् , रुक्मलम् , नन्दयन्तः, मदयित्नुः इत्यादयोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org