________________
हैमनाममालाशिलोमण्दीपिका
पारदश्चपलोऽपि च ॥९१॥ पारम् ददाति पारदः । "चप सान्त्वने" चपति चपलः । "मृदिकन्दिकुण्डि." [उ. ४६५] इति अलः । अस्थैर्याद् वा ॥९१॥ __ रसजातं रसायं च तुल्ये दावीरसोद्भवे ।
रसाद-दारुहरिद्राया रसाद जातम्-उत्पन्न रसजातम् । रसेन-दारुहरिद्राक्वाथेन अग्यम् श्रेष्ठम् रसाग्यम् । रसाग्रे साधु वा । “तत्र साधौ" [७।१।१५] इति यः । तुल्ये-समाने । दार्वी-दारुहरिद्रा तस्या रसः-क्वाथः, तस्माद् उद्भवतीति दारिसोद्भवस्तत्र । लोके "रसवति" इति प्रसिद्धिस्तन्नाम्नी।
माक्षिके वैष्णवोऽपि स्यात्
माक्षिकम् मधु तद्वर्ण माक्षिकम्, अञ्जनविशेषः । तत्र । विष्णोरयं वैष्णवः । "तस्येदम्" [६।३।१६०] इति अण् । अत एव अजस्य विष्णोर्नाम अस्य मननामकः ।
गोपित हरितालवत् ॥९॥ गोपित्तमिव गोपित्तम् । अत एव गोदन्तः । हरेः पीतवर्णस्य तालः प्रतिष्ठाऽस्य हरितालम् । हरिताम्-पीतत्वम् अलति भूषयति वा । वदर्थः पूर्ववदवसेयः । जैरम् भपि । यद् धन्वन्तरिः
"हरितालं च गोदन्तं पीतकं नटमण्डनम् ।
आलं च तालं जैरं च पिञ्जरं विस्रगन्धिकम् ।" ॥९२॥ मनःशिलायां नैपाली शिला च मुधिया मता।
मनोवाच्या शिला मनःशिला, तस्याम् । नेपालदेशे भवा नेपाली । "भवे" [१।३।१२३] इति अण् । “अणजेय०" [२।४।२०] इति डीः । “शिलत् उन्छे" तालव्यादिः । शिलति शिला । "नाम्युपान्त्य." [५।११५४] इति कः । मुधिया-पण्डितेन कथितेत्यर्थः ।
शृङ्गारमपि सिन्दूरे
शृणाति शृङ्गारम् । “द्वारशृङ्गार." [उ. ४११] इति भारे निपात्यते । शृङ्गारहेतुत्वाद् वा शृङ्गारम् । स्यन्दते सिन्दूरम्, तत्र । “सिन्दूरकर." [उ. ४३०] इति ऊरे निपात्यते । गान्धारपङ्कः, रक्तरेणुः च । यद् धन्वन्तरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org