SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीश्रीवल्लभगणिविनिर्मिता "सिन्दूर स्क्तरेणुश्च नागरक्तं च नागजम् । शृङ्गारभूषणं श्रीमद् वसन्तोत्सवमण्डनम् ॥” कुरुविन्दे तु हिगुलुः ॥९३॥ कुरुम् विन्दति कुरुविन्दः । “नि - गवादैर्नाग्नि" [५/१/६१] इति शः । "हिंद गतिवृद्धयोः” हिनोति हिगुलुः । “गूहलुगुग्गुलुकमण्डलव:" [उ. ८२४] इति बहुवचनाद 'आलु' प्रत्यये निपात्यते ॥ ९३ ॥ बोलो गोपी रसोऽप्युक्तः बोल्यते बोलः । “बुलण् निमज्जने" । गां पाति गोपः । रसति रस्यते वा रसः । भीमवद् इति वा । गोपः रसः । पिष्टोऽपि । उक्तः - कथितो विद्वद्भिरिति गम्यम् । रत्नं माणिक्यमित्यपि । रमते मनोऽत्र रत्नम् । "रमेरत् च " [ उ. २६४] इति 'न' प्रत्ययः, तश्चान्तादेशः । तच्च अष्टविधम् । यद् वाचस्पतिः "हीरकं मौक्तिकं स्वर्ण रजतं चन्दनानि च । शंश्चर्म च वस्त्रं चेत्यष्टौ रत्नस्य जातयः " ॥ ---- प्रशस्यो मणिर्मणिः । मणिक एव माणिक्यम् । भेषजादित्वाद यण् । क्लीबलिङ्गः । " इतोऽक्त्यर्थात् " [२।४।३२ ] इति ङयाम्, 'मणी' इत्यपि । पारकू, पुलिकः, श्वावतानः च तालव्यादिरयम्, पुंलिङ्गा एते । पद्मरागे शोणरत्नम् पद्मस्य इव रागोऽस्य पद्मरागः । पुंक्लीबलिङ्गस्तत्र । शोणम् च तत् रत्नम् च शोणरत्नम् । “शोणरत्नं लोहितकः पद्मरागः " [२/९/९२] इति अमर: i वैटो राजपट्टवत् ॥९॥ विराटदेशे भवो वैराटः । “भवे" [६|३|१२३] इति अण् । पट्टेन राजते राजपट्टः । राजदन्तादित्वात् पूर्वनिपातः । वदर्थः पूर्ववज्ज्ञेयः ॥ ९४॥ नीलमणौ महानीलम् Jain Education International नीलवर्णो मणिः नीलमणिः । महच्च तत् नीलम् च महानीलम् । क्लीयलिङ्गः । "इन्द्रनीलं महानीलम्” इति वैजयन्ती । १. प्रा. प्रतौ - 'प्रशस्यो मणिर्मणिक' इति पाठो नास्ति । २. जे, प्रतौ 'वदर्थः' मास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy