Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
हैमनाममालाशिलोञ्छदीपिका "आपणः पण्यवीथी च द्वयं विपणिसंज्ञकम्" [ ] । स्त्रीलिङ्गः । “पदिपठि." [उ. ६०७] इति इः । तस्याम् । पण्यस्य वीथिः पण्यवीथिः । स्वार्थिके के, पण्यवीथिका । वणिग्वीथी, हट्टवर्तनी च ॥८५॥
सुरुङ्गायां सन्धिरपि
सरति-गच्छति अनया सुरुङ्गा । “सर्तेः सुर्च" [उ. १०८] इति उङ्गः । तस्याम् । सन्धीयतेऽस्मिन् सन्धिः । “उपसर्गाद् दः किः" [५।३।८७] पुंलिङ्गः ।
गृहे धाममपि स्मृतम् । गृह्णाति पुरुषोपार्जितं द्रव्यम् इति गृहम् । “गेहे ग्रहः" [५।११५५] इति कः । पुंक्लीबलिङ्गस्तत्र । दधाति आश्रयमस्मिन् इति धामम् । “अरिस्तुसुहु." [उ. ३३८] इत्यादिना मः। क्लीबलिङ्गः । कुटीरः, अररः, अजिरम्, सार्त्रम्, पल्लिः अयं मुन्याश्रमव्याधयोरपि, वसिः, भविलः, विशिपम्, वैष्ट्रम् च । “हने रन् ध च" *[ ] इत्यनेन पाणिनीयसूत्रेण "हन् हिंसागत्योः" इत्यस्य 'ध' आदेशे रनि प्रत्यये धरोऽपि।
उपकार्योंपकर्यापि
उपक्रियते-उपष्टभ्यते उपकार्या । "ऋवर्णव्यञ्जन." [५।१।१७] इति ग्यण् । “शिक्यास्याढ्यमध्य०" [उ. ३६४] इति ये निपातनात् उपकर्या । यद् वा, उपकरणम् उपकरः । अल् । तत्र साध्वी उपकर्या । "तत्र साधौ" [७१।१५] इति यः । पटमण्डपादि राजसदनम् । उक्तं च'गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका' । [ ] इति ।
प्रासादे च प्रसादनः ॥८६॥ प्रसीदन्ति नयन-मनांसि अस्मिन्निति प्रासादः । “घञ्युपसर्गस्य." [३।२।८६] इति दीर्घः । प्रसादयति प्रसादनः । देवभूपानां गृहम् ॥८६॥
शान्तीगृहं शान्तिगृहे
शान्त्यै गृहम् शान्तिगृहम् । तत्र । शान्तीगृहम् इत्यत्र बाहुलकाद् दीर्घः, "तिक्कृतौ नाम्नि" [५।१।७१] इति 'तिक्' प्रत्यये "इतोऽक्त्यर्थाद" [२।४।३२] इति ङ्यां च शान्ती शान्तिस्तस्यै गृहम् इति वा । यदाह वाचस्पतिः"माथर्वणं शान्तिगृहं शान्तीगृहकमप्यदः" [ ] । इति ।
प्राङ्गणं त्वङ्गणं मतम् । *मुद्रितपाणिनीयसूत्रेष्विदं सूत्रं नैवावलोक्यते, अतः शोधनीयमिदं सूत्रम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170