Book Title: Haimanamamalasiloncha
Author(s): Jindevsuri, Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 46
________________ हमनाममालाशिलोम्छदीपिका रहति गृहीत्वा चन्द्रार्को स्वशरीरं वा इति राहुः । “कृवापाजि०" [उ. १] इत्यादिना उण् । “कलि शब्दसंख्यानयोः" ग्रहेषु कल्यते क्रूरग्रहत्वात् इति ग्रहकल्लोलः । "पिञ्छोलकल्लोल." [उ. ४९५] इति ओले निपात्यते । ग्रहेषु कल्लोल इव वा ग्रहकल्लोलः । अभ्रे-आकाशे-पिशाच इव अभ्रपिशाचः। एतौ देश्याम् अपि । रविवैरिभयानकशश्यरयोऽपि । नाडिका नालिकाऽपि च । "णल गन्धे" । नलति-अर्दति' नाली । ज्वलादित्वाद् णः। नाल्येव नालिका। डलयोरैक्ये नाडिका । “नडण् अवस्कन्दने" इत्यस्य धातोर्नाडीति नन्दी । रात्रौ यामवती तुङ्गी राति सुखम् रात्रिः । “राशदि." [उ. ६९६] इत्यादिना त्रिः । "इतोऽक्त्यर्थात्" [२।४।३२] इति इयां रात्री इत्यपि। "तिमिरपटलैरवगुम्फिता रात्र्यः" इति । तत्र यामा विद्यन्ते अस्यां यामवती। "तदस्यास्त्यस्मिन्निति मतुः" [७।२।१] । "तमूच् काङ्क्षायाम्" । ताम्यन्ति चक्रवाका अस्यां तुङ्गी । “कमितमिशमिभ्यो डित्" [उ. १०७] इति डित् उङ्गः । देश्याम् अपि । शशिशरीरेश्वरी, किल्विषी, वसिः दन्त्यान्तोऽयम्, मरणी, क्षित्वरी च ।। निःसम्पातो निशीथवत् ॥११॥ निः-निःशेषार्थे निश्चयार्थे वा । निःसम्पातः-अर्थात् शयनम् अत्र जनानामिति निःसम्पातः । नियतं शेरते अस्मिन् निशीथः । "न्युभ्यां शीङ" [उ.२२८] इति कित् घः । अत एव कात्यो निशीथम् सुप्तजनम् आह । निशीथवत् निशीथ इव । अस्य प्रसिद्धि विवक्षित्वोपमानत्वमुक्तम् । कथम् अवबुध्यते ? उच्यते-यथा निशीथशब्दोऽर्धरात्रवाचकस्तथा निःसम्पातोऽपीति । एवमन्यत्रापि 'वत्' अर्थों व्याख्येयः ॥११॥ तमः स्यादन्धातमसम् ताम्यन्ति अनेन तमः, अन्धकारः । “अस्" [उ. ९५२] इति अस् । अन्धयति इति] अन्धम् तच्च तत् तमश्च अन्धातमसम् । “समवाऽन्धात् तमसः" [७।३।८०] इति अत् समासान्तः । बाहुलकाद् दीर्घः । सहुरिः, दन्त्यादिरयम्, काणूकम् , छाया, नभाकः, शार्वरम् तालव्यादिरयम्, तुहिनम् , मुहिरम् च ।। वर्षाः स्युर्वरिषा अपि। १. जे. ज. अर्दयति । २ जे. ज. अवगुण्ठिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170