Book Title: Granthyugal
Author(s): Bramhachari
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 336
________________ પરિશિષ્ટ-૧ जातिलिङ्गविकल्पेन येषां च तेऽपि न प्राप्नुवन्त्येव परमं 309 समयाग्रहः । पदमात्मनः ॥८९॥ यत्त्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये । प्रीति तत्रैव कुर्वन्ति द्वेषमन्यत्र मोहिनः ॥९०॥ अनन्तरज्ञः संधत्ते दृष्टि पङ्गोर्यथाऽन्धके । संयोगाद् दृष्टिमङ्गेऽपि संधत्ते तद्वदात्मनः ॥ ९१ ॥ दृष्टभेदो यथा दृष्टि पङ्गोरन्धे न योजयेत् । तथा न योजयेद्देहे दृष्टात्मा दृष्टिमात्मनः ॥९२॥ सुप्तोन्मत्ताद्यवस्थैव विभ्रमोऽनात्मदर्शिनाम् । विभ्रमोऽक्षीणदोषस्य सर्वावस्थाऽऽत्मदर्शिनः ||९३ ॥ विदिता शेषशास्त्रोऽपि न जाग्रदपि मुच्यते । देहात्मदृष्टिर्ज्ञातात्मा सुप्तोन्मत्तोऽपि मुच्यते || १४ || यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते ॥ ९५|| यत्रैवाहितधीः पुंसः श्रद्धा तस्मान्निवर्तते । यस्मन्निवर्तते श्रद्धा कुतश्चित्तस्य तल्लयः ||९६ || भिन्नात्मानमुपास्यात्मा परो भवति तादृशः । वर्तिर्दीपं यथोपास्य भिन्ना भवति तादृशी ॥९७॥ उपास्यात्मानमेवात्मा जायते परमोऽथवा । मथित्वाऽऽत्मानमात्मैव जायतेऽग्निर्यथा तरुः || ९८ || Jain Education International इतीदं भावयेन्नित्यमवाचागोचरं पदम् । स्वत एव तदाप्नोति यतो नावर्तते पुनः ॥९९॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372