Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ ग्रन्थत्रयी प्रतिष्ठाविधिशास्त्रेभ्यः, पूर्वाचार्यैर्महर्षिभिः । प्रणीतेभ्यश्च सा ज्ञेया, सदाम्नायाच्च सद्गुरोः ॥१०॥ रक्षणीया प्रयत्नेन, प्रतिमा च प्रतिष्ठिता । यतश्चाशातिता सा नो, तथा फलप्रदा भवेत् ॥११॥ यदा ह्याशातना तत्रा-स्पृश्यानां स्पर्शनादिभिः । व्याघातः स्यात्तदा भक्ते-स्ततोऽर्चा फलदाऽपि न ॥१२॥ तथा च जिनचैत्यादौ, मालिन्याधायकत्वतः । अस्पृश्यश्वपचादीनां प्रवेशोऽपि न युज्यते ॥१३॥ आशातनापरीहारे, विधिमन्त्रादिभिः पुनः । विहिते विधिरर्चाया रक्ष्या सा यत्नतस्ततः ॥१४॥ इदमप्यत्र विज्ञेयं, प्रवेशविधिना च यत् । क्रियते स्थापनामात्रं, जिनबिम्बस्य चैत्यके ॥१५॥ तत्रापि च प्रतिष्ठेति-व्यवहारोऽनुभूयते । व्यवहारत एतत्तु, नैव तद्वास्तवं परम् ॥१६।। (युग्मम्) प्रतिष्ठातोऽर्च्यता मूर्ती, यथा स्वपरदर्शने । आक्षेपपरिहाराभ्यां, तथा किञ्चित् प्रदर्श्यते ॥१७॥ नन्वत्र किं समुत्पन्नं, प्रतिमायां प्रतिष्ठया ? । अस्पृश्यस्पर्शतो यस्य, नाशे चाऽपूज्यता भवेत् ॥१८॥ प्रतिष्ठया हि पूज्यत्वं, पूजयेद्धि प्रतिष्ठितम् । इति क्लुसेन विधिनाऽनेकशास्त्रेषु बोधितम् ॥१९॥ शास्त्रोक्तविधिना सम्यग, महोत्सवपुरस्सरम् । प्रतिष्ठा कार्यते मूत्तौं, यजमानेन धीमता ॥२०॥ तत्र मीमांसकैः शक्ति-राधेयाऽख्याऽभ्युपेयते । अस्पृश्यस्पर्शतो नाश्या, प्रतिमादौ प्रतिष्ठया ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 176