Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ अनुसंधान - १७• 177 राधा पुनातु जगदच्युतदत्तदृष्टि-मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालि - देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ १ ॥ इत्यादि । प्रति शिक्षामाह ह्यामन्त्रितः हे नः !-नर ! नृशब्दस्याऽऽमन्त्रणे शिष्यः प्रस्तुतार्थश्रवणे शिष्यं रूपम् । सबहुमानं 'सोत्साहो भवतीति । अतो विशेषणमाह धियो यो इति । 'युक् मिश्रणे' इत्ययं परैरमिश्रणे चेत्यभिधीयते, अतो यौति पृथग्भवति इति युः, विचि छान्दसत्वाद् गुणाभावः । न युः अयुः, तस्याऽऽमन्त्रणं हेऽयो ! अपृथग्भूत ! । कस्याः ? धियः, यतस्त्वं बुद्धेरपृथग्भूतो बुद्धिमान् - प्रेक्षापूर्वकारी, अतस्त्वं शिष्यसे, अन्यस्य "मूढादेरुपदेशानर्हत्वात् । 'पुनर्विशेषणान्तरमाह प्रच इति । प्रकृष्टं चिनोति । प्रकृष्टाचारी मार्गानुसारिंप्रवृत्तिरिति यावत् । 'क्वचिदि'ति डे रूपम् । यथा वाचे हिंस इति (?)) प्रकृष्टाचारे ह्युपदेशसाफल्यम्, आचारपराड्मुखानां शास्त्र' प्रतिपादने प्रत्युत प्रत्यपाय - प्रसङ्गात् । किं ? उदयात् । उदयं प्राप्तं अनन्यसामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठि पञ्चकम् । - अयमिह तात्पर्यार्थः - ईश्वर - ब्रह्म विष्णुषु उपलक्षणत्वादन्येष्वपि कपिल- सुगतादिदैवतेषु मध्ये भो: पुरुष ! ज्ञानवत् प्रकृष्टाचार (रं) परमेष्ठि- पञ्चकमेव पूर्व प्रदर्शितदिग्मात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितमतस्तदेवाऽऽराधनीय" तद्व्यतिरिक्ताराध्यान्तरस्य असद्भावात् । `सद्भावे वा वस्तुतस्तत्त्वानुपत्तेः । तद्दोषाणां लेशत इहैव निर्णीतत्वात्, तथा च सत्यपि आराध्यतायामतिप्रसङ्गः । उक्तं च - Jain Education International " १. उत्साहितो भवति ने. । २. चेत्यधीयते ने० । ३. ० मन्त्रणेऽयो ने० । ४. धियो बुद्धितः ने० । ५. तदन्यत्र हि रक्तद्विष्टमूढपूर्वव्युद्ग्राहितादावुपदेशानर्हत्वादन्धकार त्रानुकारी प्रयास इति ने० । ६. पुनर्व्युत्पाद्यस्यैव विशे. ने. । ७. शास्त्रसद्भावप्रति० ने. । ८. ०यसम्भवात् ने । ९. पञ्चककर्त्तृभूत इति ने० । १०. पूर्वदर्शित० ने० । १९.०यं तदेवोपासनीयं तदेव शरणतया प्रतिपत्तव्यं तदाज्ञामृतरस एव [त?] थाऽऽस्वादनीयः ने० । १२. भावेऽपि ने० ११३. तद्वत्त्वेनाऽपि वाऽऽराध्य ने० । For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17