Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ अनुसंधान - १७• 185 यत्कालिदासः क्रोधं प्रभो ! संहर संहरेति यावद्रिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्म (न्मा) भस्मावशेषं मदनं चकार ॥ १ ॥ तं ददात्यायधकेभ्य इति भर्गोदः । तथा च शिवधर्मोत्तरसूत्रम्पूजया विपुलं राज्य - मग्निकार्येण सम्पदः । तपः पापविशुद्धयर्थं ध्यानं ज्ञानं च मुक्तिदम् ॥ १ ॥ पुनः किम् ? धीमहि धियः पण्डिता: महः पूजका यस्य स तथा । तत्र किं स्वच्छन्देनाऽस्मातयः प्रवर्त्तन्ताम् ? नेत्याह- प्रचोदयाचोदनं चोदया- चोदना इत्यर्थ: । 'णि वेत्त्यास श्रन्थे 'ति सूत्रेणाऽनप्राप्तावपि 'शंसि प्रत्यया' दिति सूत्रेण बाहुलकादः णेर्लुक् प्रसङ्ग इति चेत् ? न । णि लुकोऽनित्यवात् । तथा च धातुपारायणं भीष्मादिभ्यो ऽनो (ना) पवादअप्रत्येयऽपि णिलुकि भीषादिरूपसिद्धयै अद्विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् । तेन सुप्रकम्पा इत्यादि सिद्धम् । चोदना च क्रियां प्रति प्रवर्तकं 'वाक्यं, यथा- 'अग्निहोत्रं 1 जुहुयात् स्वर्ग' काम:' । 'यथाऽऽह हरिभद्रसूरिः षडदर्शनसमुच्चयेचोदनालक्षणो धर्मो चोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वः कामोऽग्नि यथा यजेत् ॥ १ ॥९ प्रकर्षेण चोदया- प्रचोदया" । प्रचोदया च अस्मिन्नस्तीति 'अभ्रादिभ्य' इति गणस्याऽऽकृतिगणत्वात् अप्रत्यये प्रचोदयो - वेदः, तस्मात् - वेदोपदेशमाश्रित्येत्यर्थः । ‘गम्ययपः कर्माधारे' इति पञ्चमी । किंभूताद्वेदात् ? सवितुर्वः | "कादम्बखण्डितदलानि व पङ्कजानि " इत्यादौ वस्य उपमानार्थे रूढत्वेन आदित्यादिव, समस्तार्थप्रकाशकत्वात् । तस्माद्वेदादस्मन्मतयो ऽग्न्याराधनादौ प्रवर्त्य(र्त्त)न्ताम् । - १. भर्गोदः तस्मिन् । अग्नितर्पिणां शास्त्रे सम्पत्संप्राप्ताभिधानात् सम्पदां च कामहेतुत्वात् । तथा च० ने. । २. ०मतयः पावकतर्पणादौ ने. । ३. ०त्रेणाऽप्राप्ता० ता. । ४. भीषादीनां सिधानं णिलुको० ने । ५. सिद्धमिति ने. । ६. वचनं ने. । ७. ०काम इति ने. । ८. व्याचकार षड्दर्शनसमुच्चयकारः ने. । ९. इति ने. । १०. ०दयाऽस्मिन्नस्तीति । 'अभ्रादिभ्य' इति बहुवचनस्याऽऽकृतिगणज्ञापनार्थत्वात् अप्रत्यये चोदयो वेदः ने. । ११. शब्दस्य' कादम्बखण्डितदलानि च व ) पङ्कजानी 'त्यादिः उपमानार्थस्यत्वा( र्थत्वा ) दादित्यादिव समस्तार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । ने. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17