Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ अनुसंधान - १७• 183 इति वैष्णवाभिप्रायेण मन्त्रस्य व्याख्या ॥ ५ ॥ यदि वा सौगताः स्वं देवं बुद्धभट्टारकं प्रणिददाना एवमाहुः - इति प्राग्वत् । हे भुराधार ! भुवो भव्यलोकस्य स्वः परलोकम्, तनोति "प्रज्ञापयतीति यावत् स्वस्तत् । आत्म' नास्तित्वे परलोकाभ्युपगमात् । आत्मा (त्म) नास्तित्वं च 'पञ्चेमानि भिक्षवः ! संज्ञामात्रं प्रतिज्ञामात्रं संवृत्तिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ? अतीताद्धा - अनागताद्धा प्रतिसङ्ख्यानिरोधः आकाशं पुद्गलं' इति बुद्धोक्तिप्रामाण्यात् । अत्र पुगल इत्यात्मा । सवितुः खेवरेण्यः प्रधानः, रविर्बुद्धत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर्गोदेवस्येति बिभर्त्तीति भर् पोषकः । कस्येत्याह- गोदेवस्य । गोभिर्भूतार्थगर्भाभिर्वाग्भिर्दीव्यति स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भगवते बौ (बु) द्धाय कल्पितः पांशुमुष्टी राज्यं फलति तदा किं नामाऽऽश्चर्यं भावस्तुतिपराणां मनीषितसिद्धिविधाने ? 1 तथा हे धीम ! । धियं ज्ञानमेव मिमीते - शब्दयति 'प्रापयतीति धीमः । बहिरर्धाकार (रा) णा'मविद्यादर्शितत्वादविद्या (द्य) मानत्वेन ज्ञानाद्वैतस्य तन्मते प्रामाण्यात् । 'उक्तं च तैः - ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् नाऽन्योऽनुभावो बुद्ध्याऽस्ति तस्या नाऽनुभवो परः ॥ १ ॥ ग्राह्यग्राहकवैधुर्यात् स्वय सैव - प्रकाशते । बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते ॥ २ ॥ वासना " लुठितं चित्त-मर्थाभासं (से) प्रवर्तते । ' Jain Education International भूर्भुवः स्वरित्यादि १. मन्त्रव्याख्या ने. । २. सौगताः स्वं ने. । ३. ० माहः ने. । ४. विस्तारयति प्रज्ञा. ने. । ५. आत्मा नास्तित्वे ता. ६. ०भ्युपगमात् । आत्मा नास्ति पुनर्भा ( ) वोऽस्तीत्यादि थाना ( ? ) एवमावचनात् ने. । ७ प्रयति ने. । ८. ०राणां अविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् ने. ९. उक्तं च मुनीन्द्रपादोपजीविभिः ने। १०. प्रकाश्यते ने । ११. ० लुंठितं ता. । こ - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17