Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ अनुसंधान - १७• 182 यो न' इत्यन्तरकारप्र श्लेषात् ह अविष्णो ! । न इति योजितमेव । प्रचोदयादि `त्यादि प्रकृष्टश्चोदः शृङ्गारभाव 'सूचनम्, यस्यां सा प्रचोदा चासौ या च लक्ष्मीश्च प्रचोदया, तां "अतति - गच्छति - सातत्येन स प्रचोदयात् । तस्य सम्बोधनं हे प्रचोदयात् । योज्यते । सामर्थ्यादेव - अस्माकमिति प्रतीतेः । ततश्च ज्ञेयम् । हे अन: प्रचोद, " अनः शकटं प्रचोदयति प्रेरयतीत्यन: प्रचोदस्त सेवते इति यावत्, यद्वा पूर्वं न इति आन: प्रचोद इति ५ मन्त्रणम् । शेषवहि (शैशवे हि ) विष्णुना ७ चरणेन शकटं पर्यस्तमिति " श्रुतिः । ततः 'समानानां तेन दीर्घः' इति सन्धौ आनः प्रचोद इति ज्ञेयम् । ननु 'यो' पदात्परे 'आन: प्रचोद 'पदे - यवा नः प्रचोद इति भाव्यम् । कथमत्र योनः प्रचोद इति ? नैवम् । कातन्त्रे 'एदोत्परः पदान्ते लोपमकार' इति सूत्रे एदोद्भ्यामिति सिद्धं यत्परग्रहणं तदिष्टार्थम् । तेन क्वचिदाकारोऽपि लोप मापद्यते । ततोऽत्राऽऽकारलोपात् सिद्धं योनः प्रचोदेति । न चैवंविधा प्रयोगा नोपलभ्यन्ते इति वाच्यम् । 'बन्धुप्रियां बन्धुजनो जुहावे' त्यादि महाकविप्रयोगदर्शनात् । अथवा स्वस्तदिति विशेषणमाह, प्रचोदेति पुनः क्रियापदम् अन इति कर्मपदम्, अन्तरात्मसारथिना प्रवर्त्तनीयत्वादन इवाऽनः शरीरं तत् प्रचोद" 'चुदण् सञ्चोदने' तस्माक्षुरादेणिचोऽनित्यत्वात्तदभावे हौ रूपम् । सञ्चोदनं च नोदनमिति धातुपारायणकृता तथैव व्याख्यानात् । ततश्च प्रचोद प्रकर्षेण नुद स्फोटय । नह्यमुं दग्धकाय " मुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं ह वेदेषु 'अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः न १८ह वै [स] शरीरस्य प्रियाप्रिययोरपहतिरस्ती 'ति । १. इति यो न इत्यन्तरा० ने. । २ ० दिति ने । ३. ० स्तवनम् ने । ४. अतति सातत्येन गच्छति प्रचोदयात् तस्याऽऽमन्त्रणं हे प्रचोदयात् ! ने. । ५. अनतु ने. । ६. ० नाराय चरणेन ने । ७. श्रुतेः ने. । ८ समानानामिति ता । ९. इति सन्धौ न प्रचोद इति भवति ने. । १०. भवितव्यम् ने । ११. कातन्त्रेण ता. । १२. ०मापतते ने. । १३. न चैवं प्रकाराः ने. । १४. तुष्टने तस्य चुरादिणिचो अनि० ने. । १५. ०कार्य कलिगतसृज्य ने । १६. क्वचिदिति ता. । १७. वेदे पे. । १८ न हि ता. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17