Book Title: Gayatri Mantra Vrutti Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसंधान-१७• 180 इति वैशेषिकाभिप्रायेण मन्त्रव्याख्या ॥ ३ ॥ अथ साङ्ख्याः - स्वं देवं कपिलं प्रणिदधाना इदं वदन्ति - हे धीम ! धोर्बुद्धिस्तत्त्वम्, तन्मिमीते शब्दयति प्ररूपयति इति धीम:-भगवान् कपिलस्तस्याऽऽमन्त्रणम् । न भूर्भुवःस्वस्तदिति पूर्ववत् । अमूर्त्तश्चेतनो भोगी नित्य: सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म [आत्मा कापिलदर्शने ॥ १ ॥ इति वचनात् । सवितुर्वरेण्यमित्यक्षापादपक्षवत् । कपिलमेवोपयोगसम्पदा विशेषयति-भर् इति । 'टुडु,गक्' बिभर्तीति भर्, विचि गुणे रूपम् । कस्य ? इत्याहगोदेवस्य । गोशब्देनाऽत्र खरककुदविषाणसास्नालाङ्गलाद्यवयवसम्पन्नः पशुरुच्यते । तेन च विधेयता लक्ष्यते । ततो गौरिव विधेयानि वश्यानि यानि देवानीन्द्रियाणि यस्य स तथा तस्य जितेन्द्रियस्येत्यर्थः । न च गोविधेयता कवीनां न रूढा । 'गौरिवेति विधेयता मिति प्रयोगदर्शनात् । धीम इति व्याख्यातमेव । हि स्फुटम् । धियोयो इति-हे बुद्धितत्त्वात् पृथग्भूत ! । प्रकृतिपुरुषविवेकदर्शनानिवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्ष इति वचनात् । प्रकृतिवियोगे च बुद्ध्यादीनामपि विगमात्, कारणाभावे कार्याभावात् । धिय इति पदं पुनरावृत्त्या पञ्चम्यन्तं प्रचोदयेत्यनेन सम्बध्यते । ततश्च धियो-बुद्धितत्त्वात् नोऽस्मानपि प्रचोदय-व्यपनयेत्यर्थः। षष्ठ्यन्तं वा धिय इति । षष्ठी च कर्मणि शेषजा । यथा माषाणामश्नीयात् । तथा-"न केवलं यो महतां विभाषते''५ । ततश्च नोऽस्माकं धियं-प्रकृतिहेतुकां व्यपन येत्यर्थः । स्वयं मुक्तोऽस्मानपि मोचयेति यावत् । अत् इति । अदिति दान्तमव्ययं आश्चर्यार्थे । ततश्च अदिति आश्चर्यरूप: तत्कारणेऽ निवृत्तत्वात् । तस्याऽऽमन्त्रणे हे अद् ! 'विरामे वा' इति दस्य तः। १. [ ] एतदन्तर्गतः पाठः ता. प्रतौ लेखनदोषात् त्रुटितः प्रतिभाति । २. 'टुडु,गक् पोषणे च' बिभर्तीति भर् पोषकः, विचि गुणे च रूपम् ने. । ३. ०दसास्त्रालाङ्गलविषाणाद्या( घ)वय० ने. । ४. ०दय-प्रेस्य व्यप० ने.। ५. ०षतेऽत्र ने.। ६. ०पनयेति भावः ने. । ७. आश्रया) ने. । ८. निवृत्तित्वात् ने. । ९. ततश्च हे. ता. । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17