Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-१७ • 186 यत्र यत्तदोनित्यानि(भि)सम्बन्धाद्विद्यते । ओमित्यक्षरं छन्दसामादिभूतत्वात्तस्य किं वि०? भूर्भुवः स्वस्तत् - भुवनत्रयव्यापि । तहि किञ्चिदभिधेयसत्तासमाविष्टं वस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणमत्र' कारे शाब्दपर्यायेणाऽवाप्यते । सर्ववादिभिरविगानेनाऽस्य सकलभुवनत्रयकमलाधिगमे बीजतयोपवणितत्वादिति परिभावनीयमेतत् । अत एवाऽस्याऽसाधारणं विशेषण माह आण्यमिति । अण्यते उच्चार्यते इति आण्यं-प्रणिधेयम् । कस्य ? इत्याह वस्य । 'उ ब्रह्मा, उ: शम्भुः, अश्च विष्णुः. समाहारवशात्-वम्, तेनाऽपि ध्येयम् । वस्येति कर्तरि षष्ठी कृत्यस्य वेति । ____ यद्वा वेदात् किं०? सवितुरुत्पादयितुः व्याप्यमाह इत्यादि प्राग्वत् । शेष प्राग्वत् । नवरं व शब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोप: 'प्राक्तनयुक्तितो ज्ञेयः ।
इति भाट्टदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ७ ॥ श्री ॥
अथ के चित् परमेश्वरस्य प्रणिधानमाह:- , इत्यादि । इति । प्राग्वत् । हे भूर्भुवः - हे सर्वव्यापिन् ! वेदेऽप्युक्तम्-'पुरुष एवेदं यद्भूत'मित्यादि । वरेण्येति-पूर्वानुनासिकरीत्या । ११भर्गोदेव इति - भर्गश्च उश्च तेषामपि सन्ध्यादिश्रवणात् । तथा हि -
-
-
-
-
-
१. ०सा आदि० ने, । २. ०मत्रोकारशब्दपर्याये नैव नाऽप्यते ने । ३. सर्वैरपि प्रवादिभिरविगा. ने. । ४. ०षणान्तरमाह ने. । ५. उश्च ब्रह्मा, उच शङ्करः, अश्च पुरुषोत्तमः सन्धिवशात् वम्-पुरुषत्रयम्, तेनाऽपि ध्येयमिति भावः । ने. । ६. वेति लक्षणात् ने. । ७. ०पादयितुरिति यावत् । किं तत् व्याप्य० ने. । ८. प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थो-यस्म(स्मिन् वेदे आदावस्खलितजगत्त्रयव्यापि देवत्रयेणाऽपि प्रणिधेयः यश्च उद्भीर्यते यश्च समस्तार्थप्रकाशने नै)कभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्करणे विद्वज्जना: अभ्यर्चनीयेव आराधने आ आ )स्माकीना बुद्धयः प्रवर्तन्ताम् । इति भा( भा)ट्टदर्शने मन्त्रव्याख्या ॥ ७ ॥ ९. अथ सामान्येन सर्वप्रवादि संवादिश्वर स्वस्वरूपस्य परमेश्वरस्य प्रणिधानमिदम्भूर्भुवः स्वस्तदित्यादि ने. । १०. एवेदमिति ने. । ११. भगों भर्ग० ने. । १२. तेषामपि देव आराधनात्ववाच्यम्, तेषां सन्ध्या नास्ति तेषामपि सन्ध्यादिश्रवणात्,
तथा. ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17