Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229714/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शुभतिलकोपाध्याय - रचिता || गायत्री मन्त्र वृत्तिः ॥ सं. मुनि रत्नकीर्तिविजय गायत्री मंत्र ए हिन्दु धर्मनो एक अत्यन्त पवित्र अने सात्त्विक मंत्र मनायो छे. आजे पण उग मंत्रनां जप, पुरश्चरण, यज्ञ इत्यादि व्यापक प्रमाणमां थतां जोवां मळे छ भने हवे तो गायत्रीनां मंदिरो पण ठेरठेर रचायां छे. - केटलाक मंत्रो सकलागमोपनिषद्भूत होय छे. अर्थात् सर्व धर्मोमां तेने मान्यता मळी शके तेवा होय छे. दा. त. सिद्धहेमचन्द्रशब्दानुशासन व्याकरणमां श्री हेमचन्द्राचार्ये प्रयोजेलो अर्ह एवो बीजमंत्र एवं उ गायत्रीमंत्रनुं पण छे. एवं अत्रे प्रकाशित रचनानुं अवलोकन करतां समजाय ले ! अत्रे प्रकाशित रचनानुं नाम छे गायत्रीमंत्रवृत्ति तेना कता एक जैन मुनि छे : शुभतिलकोपाध्याय. १६मा शतकना प्रारंभकाळमां लखायेली प्रतना आधारे २० मा शतकमां लखायेल ताडपत्र पोथी (संभवत: पाटण - भंडार) नी प्रांत पुष्पिका जोतां जणाइ आवे छे के आ रचना १६मा शतकनी तो छे ज; ते पहेलांनी होय तो य ना नहि. आ रचनामा कर्ताए ब्राह्मणधर्ममां प्रसिद्ध एवा गायत्रीमंत्रनुं जुदां जुदां (सर्व) दर्शनोनी मान्यता अनुसार अर्थघटन - व्याख्यान कर्तुं छे, तेमां अनुक्रमे १. जैन दर्शन, २ नैयायिक, ३. वैशेषिक, ४. सांख्य, ५. वैष्णव, ६. बौद्ध, ७. जैमिनीय ( मीमांसक - भाट्ट) आटलां दर्शनोनो समावेश थाय छे. आ बधां अर्थघटन पत्यां पछी ध्यानसाधनाना, मंत्र-तंत्र साधनाना तथा वैदकशास्त्राना संदर्भमां पण मंत्रनुं अर्थघटन कर्ताए आप्युं छे, जे कर्तानी विलक्षण प्रतिभानुं सूचन करे. छे. एक बात नोंधपात्र छे के जैन मुनिओनी कलम सर्वव्यापी हती, अने अकुतोभयसंचरिष्णु हती. बीजा धर्मनां तत्त्वो, मंत्रो, कृतिओनुं अध्ययन कर, ते पर विवरण लखवु ए जैनमुनिओने माटे अत्यंत प्रिय तथा सहज हतुं. आ रचना आ विधाननी वधु पुष्टि करी आपे छे. Page #2 -------------------------------------------------------------------------- ________________ अनुसंधान-१७. 174 आ वृत्तिनी बे प्रतिओ मळी छे. एक-ताडपत्र प्रतिनी झेरोक्ष. आ ताडपत्र प्रति, प्रांत पुष्पिकामां निर्देश्या प्रमाणे सं. १९६२मां लखाइ छ अने बीजी प्रति त्रण पानांनी कागळनी छे. तेमां साल संवत् के लेखकनाम नथी, परंतु ते घणा भागे १९मा शतकमां लखाइ होवार्नु लाग्युं छे. बन्ने प्रतिओ अशुद्ध छे. तेना आधारे यथामति आ संपादन कर्यु छे. टिप्पणीमां ताडपत्र प्रतिने ता. संज्ञा आपी छे तथा कागळनी प्रतिने ने. संज्ञा आपी छे. Page #3 -------------------------------------------------------------------------- ________________ ॥ नमो ब्रह्मणे ॥ चिदात्मदर्श सङ्क्रान्त- 'लोकालोक विहायसे पारेवाग्वतिरूपाय प्रणम्य परमात्मने ॥ १ ॥ "गभीरामपि श्रुत्वा किञ्चिद् गुरुमुखाम्बुजात् । परेषामुपयोगाय गायत्री विवृणोम्यहम् ॥ २ ॥ इमां ह्यनादिनिधनां ब्रह्म-जीवानुवेदिनः । “आमनन्ति परे 'मन्त्रं मनन-त्राणयोगतः ॥ ३ ॥ गायन्तं त्रायत यस्माद् गायित्रीति ततः स्मृता । आचारसिद्धावप्यस्या इत्यन्वर्थ उदाहृतः ॥ ४ ॥ मन्त्रश्च स प्रमाणकोटिसंटङ्कमाटीकते यः सर्वपार्षदो भवति. अर्हमित्यादिवत् १०१ इति हेतोर्गायत्रीमन्त्रस्य सर्वदर्शनाभिप्रायेण व्याख्या कर्तुमुपकम्यते । सा चेयं सूत्रत:-नु इति परमेष्टिपञ्चकमाह । कथमिति चेत्? उच्यते, अ इति अर्हन्त इत्यद्याक्षरम्, अ इति अशरीरा इत्यस्य सिद्धवाचकस्या-- ऽऽद्याक्षरम्, आ इत्याचार्यस्याद्यम्, उ इति उपाध्यायाद्याक्षरं म-मुनीत्याद्याक्षर १२अस्वरमिति । ततः सन्धिवशात् इति पदैकदेशे पदसमुदायोपचारादेवमुक्तिः। १. ॐ नमः श्री श्रीशारदायै नमः ॥ -- ने. । २. लोकाकाश० ता० । ३. ०वृत्ति० ने. । ४. गम्भीस. ने. । ५. ०खाल्लेके ता. । ६. भोगाय ता. । ७. ०बीजाता.। ८. आत्मनन्ति ता. । ९. तन्त्रं ता. । १०. वदिति सर्वदर्शनाभिप्रायेण गायत्रीव्याख्यानायोपक्रम्यतेने.। ११.०ते-अर्हन्त इत्याद्यक्षरअः,अशरीरा इति सिद्धास्तदाद्यक्षरं अः, आचार्या इत्याद्यक्षरं आः, उपाध्याया इत्याद्यक्षरं अने । १२. अस्वगम् सन्धिवशात् पदैकदेशेऽपि ने । Page #4 -------------------------------------------------------------------------- ________________ अनुसंधान-१७. 176 तदेव असाधारणगुणसम्पदा विशिनष्टि भूर्भुवःस्वस्तदिति । भूरित्यव्ययं भूलोके, भुव इति 'पाताललोके, स्वरिति स्वर्लोके । त्रयाणां द्वन्द्वे भूर्भुवः स्वः - अधस्तिर्यगूर्ध्वरूपं लोकत्रयम् । · तत् तनोति-ज्ञानात्मना व्याप्नोति भूर्भुवःस्वस्तत् । प्रसिद्धार्हत्सिद्धानां सर्वद्रव्यपर्यायविषयेण केवलज्ञानात्मना लोकत्रयव्याप्तिः ज्ञानात्मनोः स्यादभेदात् । शेषत्रयस्याऽपि श्रद्धानविषयतया, "सव्वगयं सम्मत्तं" इत्यादि वचनात्, सामान्यरूपतया ज्ञानाद्वा । अत एव सवितुर्वरेण्यं सहस्ररश्मेः प्रधानतरं तदुद्योतस्य देशविषयत्वात् प्रस्तुतपञ्चकसम्बन्धिनो भावोद्योतस्य सर्वविषयत्वात् । आश्च श्रीपूज्या: - "चंदाइच्चगहाणं पहा पयासेइ परिमिअं खित्तं । केवलियनाणलंभो लोआलोअं पयासेई' ॥ १ ॥" न चाऽऽचार्यादि परमेष्ठित्रयस्य कैवलिकज्ञानलम्भो नास्तीति वाच्यम् । तेषामपि कैवलिकज्ञानलम्भोपलब्धानां भावानां सामान्येन ज्ञानसद्भावादित्युक्तम् । भर्गोदे इति । भर्ग ‘ईश्वरः उ रिति ब्रह्मा, दयते पालयति जगदिति दो-विष्णुः । 'क्वचिदिति डे रूपम् । लोके हि जगद् ब्रह्मा उत्पादयति रजोगुणाश्रितः, विष्णुः स्थापयति सत्त्वगुणाश्रितः, ईश्वरः संहरति तामसभावाश्रितः इति । भर्गश्च उच दश्च भर्गोदं द्वन्द्वैकवद्भावात्, तस्मिन् । किंविशिष्टे ? वसि । वसतीति वस्, "विच्प्रत्यय रूपम्, तस्मिन् वसि । क्व वसि ? 'इत्याकाक्षायामाह___अधीमहि अस्याऽपत्यं इ: कामः, तस्य मह्यः १०-कामिन्यः, ता अधिकृत्यअधीमहि स्त्रीषु । तिष्ठमाने त्यायत्ताऽऽत्पनीत्याशय: । प्रतीतं च हि ब्रह्माविष्णु महेश्वरे]षु कामिनीपरवशत्वम्, पार्वत्यनुनयार्थं ईश्वरस्य ताण्डव'२डम्बरश्रुतेः । ब्रह्माणमधिकृत्य वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयदि" ति । विष्णोस्तु गोप्यादिवल्लभत्वोपदर्शकतत्तद्वचनश्रवणात् । पठ्यते च - १. भूलोके ता.। २. ०३ गाहा २ गाह्म ने. । ३. न वाऽऽचार्यादित्रयस्य केव० ने । ४. केवलिकज्ञानोपलब्धानां ने । ५. इतीश्वरः ने.। ६. वात् । किंवि० ता.। ७. विचिरूपम्. ने.। ८. ०रूपम् । क्व ० ता. । ९. इत्याह ने. । १०. भूमय: कामि. ने । ११. चैतदीश्वरब्रह्माविष्णुषु ने. । १३. ताण्डवाडम्बर० ने. । Page #5 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 177 राधा पुनातु जगदच्युतदत्तदृष्टि-मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालि - देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ १ ॥ इत्यादि । प्रति शिक्षामाह ह्यामन्त्रितः हे नः !-नर ! नृशब्दस्याऽऽमन्त्रणे शिष्यः प्रस्तुतार्थश्रवणे शिष्यं रूपम् । सबहुमानं 'सोत्साहो भवतीति । अतो विशेषणमाह धियो यो इति । 'युक् मिश्रणे' इत्ययं परैरमिश्रणे चेत्यभिधीयते, अतो यौति पृथग्भवति इति युः, विचि छान्दसत्वाद् गुणाभावः । न युः अयुः, तस्याऽऽमन्त्रणं हेऽयो ! अपृथग्भूत ! । कस्याः ? धियः, यतस्त्वं बुद्धेरपृथग्भूतो बुद्धिमान् - प्रेक्षापूर्वकारी, अतस्त्वं शिष्यसे, अन्यस्य "मूढादेरुपदेशानर्हत्वात् । 'पुनर्विशेषणान्तरमाह प्रच इति । प्रकृष्टं चिनोति । प्रकृष्टाचारी मार्गानुसारिंप्रवृत्तिरिति यावत् । 'क्वचिदि'ति डे रूपम् । यथा वाचे हिंस इति (?)) प्रकृष्टाचारे ह्युपदेशसाफल्यम्, आचारपराड्मुखानां शास्त्र' प्रतिपादने प्रत्युत प्रत्यपाय - प्रसङ्गात् । किं ? उदयात् । उदयं प्राप्तं अनन्यसामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठि पञ्चकम् । - अयमिह तात्पर्यार्थः - ईश्वर - ब्रह्म विष्णुषु उपलक्षणत्वादन्येष्वपि कपिल- सुगतादिदैवतेषु मध्ये भो: पुरुष ! ज्ञानवत् प्रकृष्टाचार (रं) परमेष्ठि- पञ्चकमेव पूर्व प्रदर्शितदिग्मात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितमतस्तदेवाऽऽराधनीय" तद्व्यतिरिक्ताराध्यान्तरस्य असद्भावात् । `सद्भावे वा वस्तुतस्तत्त्वानुपत्तेः । तद्दोषाणां लेशत इहैव निर्णीतत्वात्, तथा च सत्यपि आराध्यतायामतिप्रसङ्गः । उक्तं च - " १. उत्साहितो भवति ने. । २. चेत्यधीयते ने० । ३. ० मन्त्रणेऽयो ने० । ४. धियो बुद्धितः ने० । ५. तदन्यत्र हि रक्तद्विष्टमूढपूर्वव्युद्ग्राहितादावुपदेशानर्हत्वादन्धकार त्रानुकारी प्रयास इति ने० । ६. पुनर्व्युत्पाद्यस्यैव विशे. ने. । ७. शास्त्रसद्भावप्रति० ने. । ८. ०यसम्भवात् ने । ९. पञ्चककर्त्तृभूत इति ने० । १०. पूर्वदर्शित० ने० । १९.०यं तदेवोपासनीयं तदेव शरणतया प्रतिपत्तव्यं तदाज्ञामृतरस एव [त?] थाऽऽस्वादनीयः ने० । १२. भावेऽपि ने० ११३. तद्वत्त्वेनाऽपि वाऽऽराध्य ने० । - Page #6 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 178 कामानुषक्तस्य रिपुप्रहारिणः प्रपञ्चिनोऽनुग्रहशापकारिणः । सामान्य वर्ग' सधर्मधारिणो महत्त्वक्लृप्तौ सकलस्य तद्भवेत् ॥ १ ॥ इह चाऽधीमहि वसी ति विशेषणेन रागसूचनम्, तत्साहचर्यात् द्वेषमोहावप्यवसेयौ, तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च । यदाह AAA "रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोष साध्यः" इत्यादि ॥ I आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न । तेषामप्याप्तोपदेशानुसारे[ण] तत्क्षयार्थमेव प्रवृत्तेः तथाविधरागाद्यसद्भावात्, तदत्यन्तक्षयस्य च भावित्वात् 'भाविनि भूतवदुपचारात् । ' तेषामपि वीतरागतैवेति भावाचार्यादिभिरेव चाऽत्राऽधिकार इति सर्वं समञ्जसम् । इति जैनाभिप्रायेण व्याख्या ॥ १ ॥ अथाऽक्षपादाः स्वं देवमीश्वरं प्रणिदधानाः प्रार्थनापुरस्सरमेवमभिदधतिभूर्भुव इत्यादि । ॐ इति सर्वविद्यानामाद्यबीजं 'सकलागमोपनिषद्धतं "सर्व विघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसङ्कल्पकल्पद्रुमोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् । न चैतद्व्यतिरिक्त "मन्यत्तत्त्वमस्तीति । हे भूर्भुवः स्वस्तदिति लोकत्रयव्यापिन् ! | अक्षपादानां हि शिवः सर्वगत इति । तथा सवितुर्भास्वतो वरेण्य प्रधानतरसर्वज्ञत्वात् । वरेण्य इति अनुनासिकस्य 'अइउवर्णस्यान्तेऽनुनासिकोऽनीदादे रिति लक्षणवशाद् यथा - सामं साम । विशेष्यमाह हे भर्ग उदे इति । तत उत्कृष्ट इः कामो यस्य उदिस्तस्याऽऽमन्त्रणं हे उदे ! | अर्वाचीनावस्थापेक्षया विशेषणमिदम् । - १. ० समानधर्मिणो ने० । २. ०तार्थाभि० ता. । ३. यदुक्तम् ने. 1४. ०पदेशेन रागादिक्षयार्थं ने । ५. ०राद्वीतरा. ने. । ६. इत्यार्हताभिप्रायेण मन्त्रव्याख्या ने. । ७. ०दधते ने. । ८.० भुवेति ने । ९. समस्तागमो० ने. । १०. अशेष विघ्न० ने. । ११. ० मन्यत्तत्त्वमस्ति वस्तु इति ने. । १२. साम ध्रुवं १ इति । विशेषकमाह ने. । Page #7 -------------------------------------------------------------------------- ________________ अनुसंधान १७• 179 - अवस्य इति । क्रियापदद्वयं यथासङ्ख्यमुत्तरपदद्वयेनाअव - रक्ष, 'पालयेति यावत् । किमित्याह प्रार्थनामाह ऽभिसम्बन्ध्यते । तत्र धीमिति कर्मपदम् । धीः बुद्धिस्तत्त्वाधिगम इति यावत् । तस्या ई: - श्रीर्धीः, तां धीम् । युक्ता चेश्वरतः प्रार्थना ज्ञानस्य । "ईश्वरात् ज्ञानमन्विच्छेत्" इति वचनात् । तथा स्य-विनाशय । 'षोंच् अन्त:कर्मणि' इत्यस्य रूपम् । किमित्याहअहिधियः कर्मतापन्नाः, 'अहे. सर्पस्येव धियः क्रूरताद्या: नोऽस्माकं बुद्धि वर्द्धय कुबुद्धींश्च विध्वंसयेत्यर्थः । - मिश्रित ! सम्बद्ध !! 'युक् पुनर्विशेषा (षणा) न्तरमाह - हे यो ! मिश्रणे' इत्यस्य विचि रूपम् । कया ? इत्याह प्रचोदया । ' चुदण् सञ्चोदने' चोदनं चोदः शृङ्गारभावसूचकम् । प्रकृष्टश्चोदो यस्यां सा प्रचोदा, अर्थात् पार्वती, तया सह इति वाक्यशेषः । अर्वाचीनावस्थायां पार्वतीपीनपयोधरप्रणयीत्याकूतम्, 'मुक्तावस्थायां प्रचोदयाऽया (यो) - ऽमिश्रित ! इति व्याख्येयम् । षडिन्द्रियाणि षड्विषयाः षड् 'बुद्धयः सुखं दुःखं शरीरं चेत्येकविंशति - " भेदभिन्नस्य दुःखस्याऽत्यन्तोच्छेदो मोक्ष इति नैयायिकवचनप्रामाण्यात् । १० तथा उदे इति प्राची [न] विशेषणमपि । उत्क्रान्त ए इत्युदिस्तस्याऽऽमन्त्रणं हे उदे ! इति योज्यम् । तथा अत्ति भक्षयति जगदिति सृष्टिसंहारकत्वात् । उक्तं च कामान् अत् विशेषणम्, - - अक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रितः ॥ १ ॥ ी नैयायिकाभिप्रायेण १२ मन्त्रस्य व्याख्या ॥ २ ॥ अथ वैशेषिकाभिप्रायेणाऽप्येवमेव । तैरपि शिवस्य देवतयाऽभ्युपगमात् । नवरं तन्मते परमपदावस्थास्वरूपमेवम्- 'बुद्धिसुखदुःखेच्छ्रद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदो मोक्ष' इति । १३ १. पालय वर्द्धयेति ने. । २. बुद्धिर्ज्ञानं तत्त्वाधिगमं इत्यनर्थान्तरम् नेः । ३. धियः ई: ने. । ४. अहि: - सर्पस्तस्येव ने 1५. क्रूरताद्या पराऽपचिकीर्षकादिव ताः ने. । ६. वर्द्धय क्रूरताद्याः कुबुद्धींश्च ने । ७. ०चोदने ततश्चो० ने. 1 ८. परमपदावस्थायां तु ने. । ९. शुद्धयः ता । १०. ०तिप्रभेद ने. । ११. ०मन्त्रणं उ ! ने. ॥ १२, मन्त्रव्या० ने. । १३. इति । अथ सांख्याः ने. । Page #8 -------------------------------------------------------------------------- ________________ अनुसंधान-१७• 180 इति वैशेषिकाभिप्रायेण मन्त्रव्याख्या ॥ ३ ॥ अथ साङ्ख्याः - स्वं देवं कपिलं प्रणिदधाना इदं वदन्ति - हे धीम ! धोर्बुद्धिस्तत्त्वम्, तन्मिमीते शब्दयति प्ररूपयति इति धीम:-भगवान् कपिलस्तस्याऽऽमन्त्रणम् । न भूर्भुवःस्वस्तदिति पूर्ववत् । अमूर्त्तश्चेतनो भोगी नित्य: सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म [आत्मा कापिलदर्शने ॥ १ ॥ इति वचनात् । सवितुर्वरेण्यमित्यक्षापादपक्षवत् । कपिलमेवोपयोगसम्पदा विशेषयति-भर् इति । 'टुडु,गक्' बिभर्तीति भर्, विचि गुणे रूपम् । कस्य ? इत्याहगोदेवस्य । गोशब्देनाऽत्र खरककुदविषाणसास्नालाङ्गलाद्यवयवसम्पन्नः पशुरुच्यते । तेन च विधेयता लक्ष्यते । ततो गौरिव विधेयानि वश्यानि यानि देवानीन्द्रियाणि यस्य स तथा तस्य जितेन्द्रियस्येत्यर्थः । न च गोविधेयता कवीनां न रूढा । 'गौरिवेति विधेयता मिति प्रयोगदर्शनात् । धीम इति व्याख्यातमेव । हि स्फुटम् । धियोयो इति-हे बुद्धितत्त्वात् पृथग्भूत ! । प्रकृतिपुरुषविवेकदर्शनानिवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्ष इति वचनात् । प्रकृतिवियोगे च बुद्ध्यादीनामपि विगमात्, कारणाभावे कार्याभावात् । धिय इति पदं पुनरावृत्त्या पञ्चम्यन्तं प्रचोदयेत्यनेन सम्बध्यते । ततश्च धियो-बुद्धितत्त्वात् नोऽस्मानपि प्रचोदय-व्यपनयेत्यर्थः। षष्ठ्यन्तं वा धिय इति । षष्ठी च कर्मणि शेषजा । यथा माषाणामश्नीयात् । तथा-"न केवलं यो महतां विभाषते''५ । ततश्च नोऽस्माकं धियं-प्रकृतिहेतुकां व्यपन येत्यर्थः । स्वयं मुक्तोऽस्मानपि मोचयेति यावत् । अत् इति । अदिति दान्तमव्ययं आश्चर्यार्थे । ततश्च अदिति आश्चर्यरूप: तत्कारणेऽ निवृत्तत्वात् । तस्याऽऽमन्त्रणे हे अद् ! 'विरामे वा' इति दस्य तः। १. [ ] एतदन्तर्गतः पाठः ता. प्रतौ लेखनदोषात् त्रुटितः प्रतिभाति । २. 'टुडु,गक् पोषणे च' बिभर्तीति भर् पोषकः, विचि गुणे च रूपम् ने. । ३. ०दसास्त्रालाङ्गलविषाणाद्या( घ)वय० ने. । ४. ०दय-प्रेस्य व्यप० ने.। ५. ०षतेऽत्र ने.। ६. ०पनयेति भावः ने. । ७. आश्रया) ने. । ८. निवृत्तित्वात् ने. । ९. ततश्च हे. ता. । Page #9 -------------------------------------------------------------------------- ________________ _अनुसंधान-१७. 181 झी साङ्ख्याभिप्रायेण मन्त्रस्य व्याख्या ॥ ४ ॥ श्रीः ॥ अथ वा वैष्णवाः स्वं देवं हरिं प्रणिदधानार इदं वदन्ति । भूर्भुवःस्वस्तदित्यादि । इति प्राग्वत् । भूर्भुवःस्वस्तदिति लोकत्रयव्यापिन् ! | आहश्च ते-'जले विष्णुः स्थले विष्णु रित्यादि । अथवा भूरित्यायो भुवः-पृथिव्याः स्वस्तदिति 'स्वर्गे परे च लोके स्व' रित्यमरकोशवचनात् स्व: - परलोकं तनोति-स्वस्तत् परलोकहेतुर्गतिमिच्छेज्जनार्दनात् । भवेत्यध्याहारोऽत्र, इत्यग्रेतनपदस्येह सम्बन्धादस्माकमाराधकानां परलोकसुखावहो भव इत्यर्थः । तथा सवितुर्वरेण्यमिति । सवितु-"जनकाद् वरेण्यतरः । प्रजानां आयति सुखपालनात् पितुरधिकतरप्रेमन्नित्यर्थः । अनुनासिकस्तु प्राग्वत् । तथा भर्गोदेवेति । भर्गश्च उश्च तयोरपि देव: पूज्यत्वात् । बाणाहवादौ पार्वतीपतेः पराजयश्रवणात् ब्रह्मणस्तु “हरे भिपद्मजन्मतया प्रसिद्धेः । तथा स्य इतित्यदस्तदर्थस्याऽऽमन्त्रणेऽसौ प्रयोगः । ततश्च हे स्य !हे स! स्मृतिप्रविष्टत्वादेवं विशेषणोपन्यासः । 'संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम्' इति तल्लक्षणात् । अनेन प्रणिधानैकतानता ध्वन्यते । तथा मतुप्लोपादभेदोपचाराद्वा धियः-पण्डिताः । 'अर्ह-मह पूजाया'मिति धातो: विपि मह इति रूपम् । महतीति महः पूजक आराधक इति यावत् । धियां महः-धीमहः । तथाविधविद्वज्जनपर्युपासकः पुरुषस्तस्मिन्नाधारो(रे) यका धीर्बुद्धिर्विज्ञानं, तस्या युरपृथग्भूतस्तस्याऽऽमन्त्रणं हे यो ! सद्गुरुसेवातत्पराणां बुद्धेर्गोचर (इति भावः । न ह्यनुपासितसद्गुरूणां लौकायतिकादीनां परमात्मा ज्ञानगोचरतामञ्चति । १. ०प्रायतो मन्त्रव्याख्या ने. । २. इदमुदिरन्ति ने. । ३. ०व्यापिन् । । जले विष्णु. ने. । ४. विष्णु, १ अथवा ने. । ५. ०नादिति वचनात् ने.। ६. भवेति हृदयम् ने. । ७. जनकान् ने. । ८. हरि० ता. । ९. नाभिपुण्डरीकतया ने. । १०. स्मृतिलक्षणात् ने. । ११. नैकता ता. । १२. क्विबन्तस्य मह ने. । १३. इत्यर्थः ने. । Page #10 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 182 यो न' इत्यन्तरकारप्र श्लेषात् ह अविष्णो ! । न इति योजितमेव । प्रचोदयादि `त्यादि प्रकृष्टश्चोदः शृङ्गारभाव 'सूचनम्, यस्यां सा प्रचोदा चासौ या च लक्ष्मीश्च प्रचोदया, तां "अतति - गच्छति - सातत्येन स प्रचोदयात् । तस्य सम्बोधनं हे प्रचोदयात् । योज्यते । सामर्थ्यादेव - अस्माकमिति प्रतीतेः । ततश्च ज्ञेयम् । हे अन: प्रचोद, " अनः शकटं प्रचोदयति प्रेरयतीत्यन: प्रचोदस्त सेवते इति यावत्, यद्वा पूर्वं न इति आन: प्रचोद इति ५ मन्त्रणम् । शेषवहि (शैशवे हि ) विष्णुना ७ चरणेन शकटं पर्यस्तमिति " श्रुतिः । ततः 'समानानां तेन दीर्घः' इति सन्धौ आनः प्रचोद इति ज्ञेयम् । ननु 'यो' पदात्परे 'आन: प्रचोद 'पदे - यवा नः प्रचोद इति भाव्यम् । कथमत्र योनः प्रचोद इति ? नैवम् । कातन्त्रे 'एदोत्परः पदान्ते लोपमकार' इति सूत्रे एदोद्भ्यामिति सिद्धं यत्परग्रहणं तदिष्टार्थम् । तेन क्वचिदाकारोऽपि लोप मापद्यते । ततोऽत्राऽऽकारलोपात् सिद्धं योनः प्रचोदेति । न चैवंविधा प्रयोगा नोपलभ्यन्ते इति वाच्यम् । 'बन्धुप्रियां बन्धुजनो जुहावे' त्यादि महाकविप्रयोगदर्शनात् । अथवा स्वस्तदिति विशेषणमाह, प्रचोदेति पुनः क्रियापदम् अन इति कर्मपदम्, अन्तरात्मसारथिना प्रवर्त्तनीयत्वादन इवाऽनः शरीरं तत् प्रचोद" 'चुदण् सञ्चोदने' तस्माक्षुरादेणिचोऽनित्यत्वात्तदभावे हौ रूपम् । सञ्चोदनं च नोदनमिति धातुपारायणकृता तथैव व्याख्यानात् । ततश्च प्रचोद प्रकर्षेण नुद स्फोटय । नह्यमुं दग्धकाय " मुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं ह वेदेषु 'अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः न १८ह वै [स] शरीरस्य प्रियाप्रिययोरपहतिरस्ती 'ति । १. इति यो न इत्यन्तरा० ने. । २ ० दिति ने । ३. ० स्तवनम् ने । ४. अतति सातत्येन गच्छति प्रचोदयात् तस्याऽऽमन्त्रणं हे प्रचोदयात् ! ने. । ५. अनतु ने. । ६. ० नाराय चरणेन ने । ७. श्रुतेः ने. । ८ समानानामिति ता । ९. इति सन्धौ न प्रचोद इति भवति ने. । १०. भवितव्यम् ने । ११. कातन्त्रेण ता. । १२. ०मापतते ने. । १३. न चैवं प्रकाराः ने. । १४. तुष्टने तस्य चुरादिणिचो अनि० ने. । १५. ०कार्य कलिगतसृज्य ने । १६. क्वचिदिति ता. । १७. वेदे पे. । १८ न हि ता. । Page #11 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 183 इति वैष्णवाभिप्रायेण मन्त्रस्य व्याख्या ॥ ५ ॥ यदि वा सौगताः स्वं देवं बुद्धभट्टारकं प्रणिददाना एवमाहुः - इति प्राग्वत् । हे भुराधार ! भुवो भव्यलोकस्य स्वः परलोकम्, तनोति "प्रज्ञापयतीति यावत् स्वस्तत् । आत्म' नास्तित्वे परलोकाभ्युपगमात् । आत्मा (त्म) नास्तित्वं च 'पञ्चेमानि भिक्षवः ! संज्ञामात्रं प्रतिज्ञामात्रं संवृत्तिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ? अतीताद्धा - अनागताद्धा प्रतिसङ्ख्यानिरोधः आकाशं पुद्गलं' इति बुद्धोक्तिप्रामाण्यात् । अत्र पुगल इत्यात्मा । सवितुः खेवरेण्यः प्रधानः, रविर्बुद्धत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर्गोदेवस्येति बिभर्त्तीति भर् पोषकः । कस्येत्याह- गोदेवस्य । गोभिर्भूतार्थगर्भाभिर्वाग्भिर्दीव्यति स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भगवते बौ (बु) द्धाय कल्पितः पांशुमुष्टी राज्यं फलति तदा किं नामाऽऽश्चर्यं भावस्तुतिपराणां मनीषितसिद्धिविधाने ? 1 तथा हे धीम ! । धियं ज्ञानमेव मिमीते - शब्दयति 'प्रापयतीति धीमः । बहिरर्धाकार (रा) णा'मविद्यादर्शितत्वादविद्या (द्य) मानत्वेन ज्ञानाद्वैतस्य तन्मते प्रामाण्यात् । 'उक्तं च तैः - ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् नाऽन्योऽनुभावो बुद्ध्याऽस्ति तस्या नाऽनुभवो परः ॥ १ ॥ ग्राह्यग्राहकवैधुर्यात् स्वय सैव - प्रकाशते । बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते ॥ २ ॥ वासना " लुठितं चित्त-मर्थाभासं (से) प्रवर्तते । ' भूर्भुवः स्वरित्यादि १. मन्त्रव्याख्या ने. । २. सौगताः स्वं ने. । ३. ० माहः ने. । ४. विस्तारयति प्रज्ञा. ने. । ५. आत्मा नास्तित्वे ता. ६. ०भ्युपगमात् । आत्मा नास्ति पुनर्भा ( ) वोऽस्तीत्यादि थाना ( ? ) एवमावचनात् ने. । ७ प्रयति ने. । ८. ०राणां अविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् ने. ९. उक्तं च मुनीन्द्रपादोपजीविभिः ने। १०. प्रकाश्यते ने । ११. ० लुंठितं ता. । こ - Page #12 -------------------------------------------------------------------------- ________________ अनुसंधान-१७. 184 'इत्यत्र बहु बहु वक्तव्यं तत्तु ग्रन्थगौरवभयानोच्यते, गमनिकामात्रफलत्वा'दस्य । हि - स्फुटम् । हे यो ! - पदैकदेशे पदसमुदायोपचारात् हे योगिन् ! । 'बुद्धे तु. भगवान् योगी'ति शेषवचनात् योगी-बुद्धस्तस्याऽऽमन्त्रणम् । नोऽस्माकं धियो - बुद्धीरभिप्रेततत्त्वज्ञानं प्रति चोदय व्यापारय । अत्अतति सातत्येन गच्छति' ! 'गत्यर्था ज्ञानार्था' इति वचनात्, अतति-गच्छतीति अत्-सर्वज्ञः । इति बौद्धाभिप्रायेण ५ मन्त्रस्य व्याख्या ॥ ६ ॥ अथ जैमिनीयाः पुनः सर्व देवत्वेन न प्रतिपन्नाः', नित्येभ्यो वेदवाक्येभ्य एव तेषां तत्त्वनिश्चयः, साक्षादतीन्द्रियार्थदर्शिन स्तन्मते ऽभावात् । यदुक्तम् अतीन्द्रियाणामर्थानां साक्षात् दृ(द्र)ष्टा न विद्यते । "नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ १ ॥ अतस्ते वेदवाक्यप्रामाण्यादेव वैश्वानरं गुरुतयार प्रपन्नाः तत्स्तुतिं वेदगर्भामित्थं कुर्वन्ति । तत्राऽस्या: पदविभागः क्रियते - भूर्भुवः स्वस्तत् सवितुर्वरे आण्यं भर्गो देवस्य धीमहि धियोऽयो नः प्रचोदयार्थ:( त्)१३ इति । धियो-बुद्धयो नो-ऽस्माकं, भवन्तिति वाक्य शेषः । किंभूता:१५ ? अयः - अयन्ति गच्छन्तीति अयः -- गामिन्यः । क्व५ ? रे - अग्नौ, तदाराधनादाविति ग्राह्यम् । तदाराधनादावस्मान् प्रवर्तयेत्यर्थः । १६किंभूते रे? भर्गोदे- अवतीति ऊ-र्दाहक: । अवते र्धातुपाठे दाहार्थतया पाठात् । भर्ग-ईश्वरः ऊ-दोहको यस्य स भर्गो-कामः । १ इत्याद्य० ता. । २.०त्वात् प्रयासस्य ने। ३.०त्यभिधानचिन्तामणिशेष० ने। ४.०ति इति अत् । गत्यर्थानां सर्वज्ञानार्थत्वात् सर्वज्ञ इत्यर्थय ने। ५.मन्त्रव्याने। ६. जैम० ने.। ७.देवतात्वेन ने। ८.ना: किन्तु ने.। ९.०दर्शिनः कस्याचिदपि ने। १०.वचनेन हि नित्येन, यः पश्यति स पश्यति ने। ११.०तया पर्युपासते । इति तत्प्राणिधानार्थं वेदस्तुतिगर्भमिदं पठन्ति-भूर्भुवः स्वरित्यादि । तत्र सुखावबोधाय पदविभागः ने.। १२.धियः नः प्रचो-ने.। १३.० यात् । अधुनाऽक्षरार्थः कथा थ्यते ने। १४.किंभूता भवन्तु ? ने। १५.क्व? इत्याह रे-ऽग्नौ । अग्निशब्देनाऽत्र तदाराधनादि ग्राह्यम् । आन (?)शाऽग्न्याराधनादावस्मन्मतयः प्रवर्तनशीला भवन्त्वित्ययमर्थः सम्पन्न: ने. ! १६.कि विशिष्टे रे ? भर्गोदे-ऽवन्तीमा त्यु)-र्दाहकः । अवते. श्रीसिद्धहेमधातुपाठे दहनार्थतया पठितत्वात् ने.। १७. यस्य या )ऽसौ ने. १ Page #13 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 185 यत्कालिदासः क्रोधं प्रभो ! संहर संहरेति यावद्रिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्म (न्मा) भस्मावशेषं मदनं चकार ॥ १ ॥ तं ददात्यायधकेभ्य इति भर्गोदः । तथा च शिवधर्मोत्तरसूत्रम्पूजया विपुलं राज्य - मग्निकार्येण सम्पदः । तपः पापविशुद्धयर्थं ध्यानं ज्ञानं च मुक्तिदम् ॥ १ ॥ पुनः किम् ? धीमहि धियः पण्डिता: महः पूजका यस्य स तथा । तत्र किं स्वच्छन्देनाऽस्मातयः प्रवर्त्तन्ताम् ? नेत्याह- प्रचोदयाचोदनं चोदया- चोदना इत्यर्थ: । 'णि वेत्त्यास श्रन्थे 'ति सूत्रेणाऽनप्राप्तावपि 'शंसि प्रत्यया' दिति सूत्रेण बाहुलकादः णेर्लुक् प्रसङ्ग इति चेत् ? न । णि लुकोऽनित्यवात् । तथा च धातुपारायणं भीष्मादिभ्यो ऽनो (ना) पवादअप्रत्येयऽपि णिलुकि भीषादिरूपसिद्धयै अद्विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् । तेन सुप्रकम्पा इत्यादि सिद्धम् । चोदना च क्रियां प्रति प्रवर्तकं 'वाक्यं, यथा- 'अग्निहोत्रं 1 जुहुयात् स्वर्ग' काम:' । 'यथाऽऽह हरिभद्रसूरिः षडदर्शनसमुच्चयेचोदनालक्षणो धर्मो चोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वः कामोऽग्नि यथा यजेत् ॥ १ ॥९ प्रकर्षेण चोदया- प्रचोदया" । प्रचोदया च अस्मिन्नस्तीति 'अभ्रादिभ्य' इति गणस्याऽऽकृतिगणत्वात् अप्रत्यये प्रचोदयो - वेदः, तस्मात् - वेदोपदेशमाश्रित्येत्यर्थः । ‘गम्ययपः कर्माधारे' इति पञ्चमी । किंभूताद्वेदात् ? सवितुर्वः | "कादम्बखण्डितदलानि व पङ्कजानि " इत्यादौ वस्य उपमानार्थे रूढत्वेन आदित्यादिव, समस्तार्थप्रकाशकत्वात् । तस्माद्वेदादस्मन्मतयो ऽग्न्याराधनादौ प्रवर्त्य(र्त्त)न्ताम् । - १. भर्गोदः तस्मिन् । अग्नितर्पिणां शास्त्रे सम्पत्संप्राप्ताभिधानात् सम्पदां च कामहेतुत्वात् । तथा च० ने. । २. ०मतयः पावकतर्पणादौ ने. । ३. ०त्रेणाऽप्राप्ता० ता. । ४. भीषादीनां सिधानं णिलुको० ने । ५. सिद्धमिति ने. । ६. वचनं ने. । ७. ०काम इति ने. । ८. व्याचकार षड्दर्शनसमुच्चयकारः ने. । ९. इति ने. । १०. ०दयाऽस्मिन्नस्तीति । 'अभ्रादिभ्य' इति बहुवचनस्याऽऽकृतिगणज्ञापनार्थत्वात् अप्रत्यये चोदयो वेदः ने. । ११. शब्दस्य' कादम्बखण्डितदलानि च व ) पङ्कजानी 'त्यादिः उपमानार्थस्यत्वा( र्थत्वा ) दादित्यादिव समस्तार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । ने. । Page #14 -------------------------------------------------------------------------- ________________ अनुसंधान-१७ • 186 यत्र यत्तदोनित्यानि(भि)सम्बन्धाद्विद्यते । ओमित्यक्षरं छन्दसामादिभूतत्वात्तस्य किं वि०? भूर्भुवः स्वस्तत् - भुवनत्रयव्यापि । तहि किञ्चिदभिधेयसत्तासमाविष्टं वस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणमत्र' कारे शाब्दपर्यायेणाऽवाप्यते । सर्ववादिभिरविगानेनाऽस्य सकलभुवनत्रयकमलाधिगमे बीजतयोपवणितत्वादिति परिभावनीयमेतत् । अत एवाऽस्याऽसाधारणं विशेषण माह आण्यमिति । अण्यते उच्चार्यते इति आण्यं-प्रणिधेयम् । कस्य ? इत्याह वस्य । 'उ ब्रह्मा, उ: शम्भुः, अश्च विष्णुः. समाहारवशात्-वम्, तेनाऽपि ध्येयम् । वस्येति कर्तरि षष्ठी कृत्यस्य वेति । ____ यद्वा वेदात् किं०? सवितुरुत्पादयितुः व्याप्यमाह इत्यादि प्राग्वत् । शेष प्राग्वत् । नवरं व शब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोप: 'प्राक्तनयुक्तितो ज्ञेयः । इति भाट्टदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ७ ॥ श्री ॥ अथ के चित् परमेश्वरस्य प्रणिधानमाह:- , इत्यादि । इति । प्राग्वत् । हे भूर्भुवः - हे सर्वव्यापिन् ! वेदेऽप्युक्तम्-'पुरुष एवेदं यद्भूत'मित्यादि । वरेण्येति-पूर्वानुनासिकरीत्या । ११भर्गोदेव इति - भर्गश्च उश्च तेषामपि सन्ध्यादिश्रवणात् । तथा हि - - - - - - १. ०सा आदि० ने, । २. ०मत्रोकारशब्दपर्याये नैव नाऽप्यते ने । ३. सर्वैरपि प्रवादिभिरविगा. ने. । ४. ०षणान्तरमाह ने. । ५. उश्च ब्रह्मा, उच शङ्करः, अश्च पुरुषोत्तमः सन्धिवशात् वम्-पुरुषत्रयम्, तेनाऽपि ध्येयमिति भावः । ने. । ६. वेति लक्षणात् ने. । ७. ०पादयितुरिति यावत् । किं तत् व्याप्य० ने. । ८. प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थो-यस्म(स्मिन् वेदे आदावस्खलितजगत्त्रयव्यापि देवत्रयेणाऽपि प्रणिधेयः यश्च उद्भीर्यते यश्च समस्तार्थप्रकाशने नै)कभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्करणे विद्वज्जना: अभ्यर्चनीयेव आराधने आ आ )स्माकीना बुद्धयः प्रवर्तन्ताम् । इति भा( भा)ट्टदर्शने मन्त्रव्याख्या ॥ ७ ॥ ९. अथ सामान्येन सर्वप्रवादि संवादिश्वर स्वस्वरूपस्य परमेश्वरस्य प्रणिधानमिदम्भूर्भुवः स्वस्तदित्यादि ने. । १०. एवेदमिति ने. । ११. भगों भर्ग० ने. । १२. तेषामपि देव आराधनात्ववाच्यम्, तेषां सन्ध्या नास्ति तेषामपि सन्ध्यादिश्रवणात्, तथा. ने. । Page #15 -------------------------------------------------------------------------- ________________ अनुसंधान - १७• 187 अष्टवर्गान्तगं बीजं कवर्गस्य च पूर्वकम् । वह्निनोपरि संयुक्तं गगनेन विभूषितम् ॥ १ ॥ एतद्देवि ! परं तत्त्वं योऽभिजानाति तत्त्वतः । संसारबन्धनं छित्त्वा स गच्छेत् परमां गतिम् ॥ २ ॥१ इति वचनप्रामाण्यात् । स्य-अन्तय । कमित्याह- धियः- धीश्चित्तं तस्य । इः कामस्तं मनः कामे हि ध्वस्ते ध्वस्तावेव वाक्कायकामौ । अहिधिय: क्रूरताद्यास्ताद्यपि विनाशय । चं विनाऽपि ५ समुच्चयोऽत्र गम्यः । अहरहर्नयमानो गामंश्च (मश्वं ) पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ३ ॥ इत्यादाविव । तथा योनि सच्चित्तादिकां च चतुरशीतिलक्षसङ्ख्यावच्छ्त्रिां करोतीति प्यन्तात् क्विपि णि लुकि च योन् संसारस्तस्माद् योनः- “संसारात् प्रचोदय, अस्मानिति शेष: । 'कामादिध्वसनपूर्वमस्मान् मुक्तिं प्रापय इत्यभिप्रायः । न तु योनः प्रचोदयेत्यनेनैव कामादिध्वंसनमर्यादापत्रम्, मुक्ततायास्तत्रान्तरीयकत्वादिति चेत् । सत्यम्, मुक्त्यर्थिना पूर्वं कामादि जयो विधेयः, इत्युपायोपेयभावज्ञापनार्थमित्यदोषः । तथा अत् इति सौगतपक्षवत् । " इति सर्वदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ८ || अथाऽसौ गायत्रीमन्त्रः सर्वबीजाक्षरनिधिः इति द्विजप्रवादमाश्रित्य कतिचिन्मन्त्राक्षरबीजानि प्रदर्श्यन्ते । तद्यथा इति बीजाक्षरं अक्षपादपक्षप्रदर्शिनप्रभावदिमात्रम् । तत्र च भर्गोद इति ध्यानकार्यापेक्षं वर्णसूचनम् । तथाहि १४ भर्ग - १. तन्त्रं ने। २. इत्यादि ने । ३. धी धीश्च( श्चि) त्तं तयः ने। ४. ध्वंसिते ने. । ५. समुच्चयस्य गम(म्य ) मानत्वात् ने. । ६. ० दिकं चतुरशीतिलक्षसङ्ख्याविच्छिन्नापाकरोती० ने. । ७. योनः ता. । ८. संसारोदधेः ने. । ९. कामक्रोधादि० ने. । १०. यो: नः प्रचोदयेत्यनेनैव कामादिध्वंसम( न ) मर्थापन्नं मुक्तताया सूत्रन्तरायकीत्वात्रार्थस्य धीमहि धिय इत्यनेनैवेति चेन्न ने. । ११. इति सर्वदर्शने मन्त्र - व्याख्या ने. । १२. • गायत्री सर्वज्ञबीजा० ने. । १३. भर्गोदे ने । १४. भर्ग इतीश्वर० ने. । Page #16 -------------------------------------------------------------------------- ________________ अनुसंधान-१७. 188 ईश्वरस्तेन च श्वेतवर्णो लक्ष्यते । शान्तिकपौष्टिकादौ उ रिति ब्रह्मा, स च पीत'वर्ण व्यजयति । स्तम्भादौ पीतरक्तयोश्च कविरूदया ऐक्यात् रक्तवर्णस्याऽपि ग्रहणं वश्याकर्षणयोः । द इति कृष्णः, तेन च कृष्णवर्णो 'लक्ष्यते विद्वेषोच्चाटनावसानेषु । इत्यादिरन्योऽपि श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाम्नायमवसेयः । यथा- मु इत्यनेन - वट्टकला अरिहंता निउणा सिद्धा य लोढकल सूरी(?) । "उवज्झाया सुद्धकला दीहकला साहुणो ६ भणिआ ॥ १ ॥ इति गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना ध्येयमिति । अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । 'भु इत्यनेन भुवनं-जलतत्त्वम्, व इति वह्नितत्त्वम्, स्वस्तत्सवि इत्यनेन वाखाकाशे । तत्र स इत्यनेन वायुतत्त्वम्, स्वरुव॑लोकं मुखमस्तक रूपम् वि इत्यनेन वियत्तत्त्वम्, तनोति-व्याप्नोति इति स्वस्तत् । न्यायश्चैषाम् - तत्त्वपञ्चकमिदं विधियोगात् स्मर्यमाणमघजातिविघाति । कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि ? ॥ १ ॥ अथ वरेण्यं धीमहि 'इति । हि हकारे रेफे च, धी इति ईकारे "ण्यं इति बिन्दौ च योजिते मायाबीजम् । तदप्यचिन्त्यशक्तियुक्तम्, "सर्वमन्त्रसार्वभौमत्वात् । इदमेव च उद्गीथादितत्त्वम् ।। महिधियोयोन इति । नात्परस्य विसर्गस्य माधोजनेन म इति भावात्तदन्तं सन्मन्त्रः वर्णान्तेति(?) इत्यादि वचनात् । तथा वरेण्यमिति वस्था(?)वकारात्परे "एकारे ण्यमिति बिन्दौ च वाग्बीजं ऐं । अधीमहि इत्यत्राऽऽर्हतः पक्षेइ: काम उक्तः, १५अतस्तद्धीः । किमाह-सर्वेषां मन्त्राणां सांयोगिकत्वात् । १. ०वर्णं ध्वन क (?) ति ने. । २. गम्यते ने । ३. नावसादनेषु ता. । ४. यदि वा ने. । ५. उवज्झाय विसुद्ध. ता. । ६. सुह्या ने. । ७. भु इत्यनेन वायुआकाशतत्त्वे । तत्र स इत्यनेन वायुतत्त्वम्, वि इत्यनेन वियत्तत्त्व स्वरूवलोकं मुखमस्तकरूपं तनोति-व्याप्नोति० ने.। ८.०मस्तकतत्त्वम् ता. । ९. इति हकारे रेफे० ने । १०. वण्यं ने । ११. सर्वमन्त्रेषु सार्वभौमाधिनत्वात् ने. । १२. च उद्रीथादिकम् ने. । १३. ०परेरगतै ने. । १४. एकारो ता. । १५. अतस्तद्वीजस्मरबीजश्रीबीजप्रमुखाक्षराणां संयोग श्रीपद्मावतीत्रिपुरादिदेवताराधना महामन्त्रा सि ? दिनिबन्धनं भवन्तीतिर ? कारेण बद्धद्भिः स्वप्रज्ञानुसारेण वाच्यम् । सयोगिका अमी अर्था इति चेत् का?) । किमाह ने । Page #17 -------------------------------------------------------------------------- ________________ अनुसंधान-१७. 189 तथा च पठ्यते - अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् / अधना 'पृथिवी नास्ति संयोगाः खलु दुर्लभाः // 1 // एवं रक्षादियन्त्राणि / यथाऽत्र मायाबीजमुक्तं तदुपरि यन्त्रन्यासः क्रियतप / विश्ययन्त्रं तथा वश्यादि प्रयोगा अप्यत्र ज्ञेयाः / यद्वा भर्गोशब्दागोरोचना महीति मनःशिला देव इति प्रचोदयादिति दाबलानि एभिः सवितुरिति वा शब्दाद्विशेषको विलेपनं वा यो इति यो शब्दाद्विशेषयोनिमतीनां स्त्रीणां नृशब्दात् नराणां प्रीतिकरं तथा प्रचोदया प्रदीयमानानां विषाणामसाध्यता निदानमित्यादि / अधीमहीति अजामेषशृङ्गी तस्याः "प्रचोदया, दाइलानि पत्राणि भा 1 सर्पिषा सह, भर्गो इति भात् भक्षयेत् / वरेण्यमिति वाद् बलवीर्यकरं, प्रचोद इति प्रात् प्रभजन हरन्त्याद्योषधविधयोऽप्यत्र ज्ञेयाः / व्याख्याभिाख्या // असौ गायत्रीमन्त्रः / चक्रे श्रीशुभतिलको-पाध्यायैः स्वमतिशिल्पकल्पनया / व्याख्यानं गायत्र्याः क्रीडामात्रोपयो गमिदम् // 1 // इति गायत्रीमन्त्रवृत्तिलिखिता संवत् नयन-रसा-(९)ङ्क-श"शि वर्षे आषाढाऽसिते पक्षे षष्ठम्यां भोमवासरे / श्रीमदणहिल्लपुरपत्तननिवासीयश्रीमालिज्ञाति(ती)य श्रीलक्ष्मीशङ्करात्मजेन गोवर्द्धनेनेदं सूत्रं लिखितम् // आ पुस्तक संवत् १५५५ना वरसमां ऐंद्रीग्रामे पं. संयमरत्नगणितुं लखेलुं हतुं ते परथी लख्युं छे. 1. पृथ्वी ने. 2. वत्सयन्त्रं ता. 1 3. ०ति अकारादजामेष० ने. / 4. प्रचोदयति ने. /