________________
अनुसंधान - १७• 178
कामानुषक्तस्य रिपुप्रहारिणः प्रपञ्चिनोऽनुग्रहशापकारिणः ।
सामान्य वर्ग' सधर्मधारिणो महत्त्वक्लृप्तौ सकलस्य तद्भवेत् ॥ १ ॥ इह चाऽधीमहि वसी ति विशेषणेन रागसूचनम्, तत्साहचर्यात् द्वेषमोहावप्यवसेयौ, तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च ।
यदाह
AAA
"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः ।
मोहः कुवृत्तागमदोष साध्यः" इत्यादि ॥
I
आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न । तेषामप्याप्तोपदेशानुसारे[ण] तत्क्षयार्थमेव प्रवृत्तेः तथाविधरागाद्यसद्भावात्, तदत्यन्तक्षयस्य च भावित्वात् 'भाविनि भूतवदुपचारात् । ' तेषामपि वीतरागतैवेति भावाचार्यादिभिरेव चाऽत्राऽधिकार इति सर्वं समञ्जसम् । इति जैनाभिप्रायेण व्याख्या ॥ १ ॥
अथाऽक्षपादाः स्वं देवमीश्वरं प्रणिदधानाः प्रार्थनापुरस्सरमेवमभिदधतिभूर्भुव इत्यादि । ॐ इति सर्वविद्यानामाद्यबीजं 'सकलागमोपनिषद्धतं "सर्व विघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसङ्कल्पकल्पद्रुमोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् । न चैतद्व्यतिरिक्त "मन्यत्तत्त्वमस्तीति । हे भूर्भुवः स्वस्तदिति लोकत्रयव्यापिन् ! | अक्षपादानां हि शिवः सर्वगत इति ।
तथा सवितुर्भास्वतो वरेण्य प्रधानतरसर्वज्ञत्वात् । वरेण्य इति अनुनासिकस्य 'अइउवर्णस्यान्तेऽनुनासिकोऽनीदादे रिति लक्षणवशाद् यथा - सामं साम । विशेष्यमाह हे भर्ग उदे इति । तत उत्कृष्ट इः कामो यस्य उदिस्तस्याऽऽमन्त्रणं हे उदे ! | अर्वाचीनावस्थापेक्षया विशेषणमिदम् ।
-
१. ० समानधर्मिणो ने० । २. ०तार्थाभि० ता. । ३. यदुक्तम् ने. 1४. ०पदेशेन रागादिक्षयार्थं ने । ५. ०राद्वीतरा. ने. । ६. इत्यार्हताभिप्रायेण मन्त्रव्याख्या ने. । ७. ०दधते ने. । ८.० भुवेति ने । ९. समस्तागमो० ने. । १०. अशेष विघ्न० ने. । ११. ० मन्यत्तत्त्वमस्ति वस्तु इति ने. । १२. साम ध्रुवं १ इति । विशेषकमाह
ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org