________________
_अनुसंधान-१७. 181 झी साङ्ख्याभिप्रायेण मन्त्रस्य व्याख्या ॥ ४ ॥ श्रीः ॥
अथ वा वैष्णवाः स्वं देवं हरिं प्रणिदधानार इदं वदन्ति । भूर्भुवःस्वस्तदित्यादि । इति प्राग्वत् । भूर्भुवःस्वस्तदिति लोकत्रयव्यापिन् ! | आहश्च ते-'जले विष्णुः स्थले विष्णु रित्यादि । अथवा भूरित्यायो भुवः-पृथिव्याः स्वस्तदिति 'स्वर्गे परे च लोके स्व' रित्यमरकोशवचनात् स्व: - परलोकं तनोति-स्वस्तत् परलोकहेतुर्गतिमिच्छेज्जनार्दनात् । भवेत्यध्याहारोऽत्र, इत्यग्रेतनपदस्येह सम्बन्धादस्माकमाराधकानां परलोकसुखावहो भव इत्यर्थः ।
तथा सवितुर्वरेण्यमिति । सवितु-"जनकाद् वरेण्यतरः । प्रजानां आयति सुखपालनात् पितुरधिकतरप्रेमन्नित्यर्थः । अनुनासिकस्तु प्राग्वत् ।
तथा भर्गोदेवेति । भर्गश्च उश्च तयोरपि देव: पूज्यत्वात् । बाणाहवादौ पार्वतीपतेः पराजयश्रवणात् ब्रह्मणस्तु “हरे भिपद्मजन्मतया प्रसिद्धेः ।
तथा स्य इतित्यदस्तदर्थस्याऽऽमन्त्रणेऽसौ प्रयोगः । ततश्च हे स्य !हे स! स्मृतिप्रविष्टत्वादेवं विशेषणोपन्यासः । 'संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम्' इति तल्लक्षणात् । अनेन प्रणिधानैकतानता ध्वन्यते ।
तथा मतुप्लोपादभेदोपचाराद्वा धियः-पण्डिताः । 'अर्ह-मह पूजाया'मिति धातो: विपि मह इति रूपम् । महतीति महः पूजक आराधक इति यावत् । धियां महः-धीमहः । तथाविधविद्वज्जनपर्युपासकः पुरुषस्तस्मिन्नाधारो(रे) यका धीर्बुद्धिर्विज्ञानं, तस्या युरपृथग्भूतस्तस्याऽऽमन्त्रणं हे यो ! सद्गुरुसेवातत्पराणां बुद्धेर्गोचर (इति भावः । न ह्यनुपासितसद्गुरूणां लौकायतिकादीनां परमात्मा ज्ञानगोचरतामञ्चति ।
१. ०प्रायतो मन्त्रव्याख्या ने. । २. इदमुदिरन्ति ने. । ३. ०व्यापिन् । । जले विष्णु. ने. । ४. विष्णु, १ अथवा ने. । ५. ०नादिति वचनात् ने.। ६. भवेति हृदयम् ने. । ७. जनकान् ने. । ८. हरि० ता. । ९. नाभिपुण्डरीकतया ने. । १०. स्मृतिलक्षणात् ने. । ११. नैकता ता. । १२. क्विबन्तस्य मह ने. । १३. इत्यर्थः ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org