Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १७• 187
अष्टवर्गान्तगं बीजं कवर्गस्य च पूर्वकम् । वह्निनोपरि संयुक्तं गगनेन विभूषितम् ॥ १ ॥ एतद्देवि ! परं तत्त्वं योऽभिजानाति तत्त्वतः ।
संसारबन्धनं छित्त्वा स गच्छेत् परमां गतिम् ॥ २ ॥१ इति वचनप्रामाण्यात् ।
स्य-अन्तय । कमित्याह- धियः- धीश्चित्तं तस्य । इः कामस्तं मनः कामे हि ध्वस्ते ध्वस्तावेव वाक्कायकामौ । अहिधिय: क्रूरताद्यास्ताद्यपि विनाशय । चं विनाऽपि ५ समुच्चयोऽत्र गम्यः ।
अहरहर्नयमानो गामंश्च (मश्वं ) पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ३ ॥ इत्यादाविव । तथा योनि सच्चित्तादिकां च चतुरशीतिलक्षसङ्ख्यावच्छ्त्रिां करोतीति प्यन्तात् क्विपि णि लुकि च योन् संसारस्तस्माद् योनः- “संसारात् प्रचोदय, अस्मानिति शेष: । 'कामादिध्वसनपूर्वमस्मान् मुक्तिं प्रापय इत्यभिप्रायः । न तु योनः प्रचोदयेत्यनेनैव कामादिध्वंसनमर्यादापत्रम्, मुक्ततायास्तत्रान्तरीयकत्वादिति चेत् । सत्यम्, मुक्त्यर्थिना पूर्वं कामादि जयो विधेयः, इत्युपायोपेयभावज्ञापनार्थमित्यदोषः । तथा अत् इति सौगतपक्षवत् ।
" इति सर्वदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ८ ||
अथाऽसौ गायत्रीमन्त्रः सर्वबीजाक्षरनिधिः इति द्विजप्रवादमाश्रित्य कतिचिन्मन्त्राक्षरबीजानि प्रदर्श्यन्ते । तद्यथा इति बीजाक्षरं अक्षपादपक्षप्रदर्शिनप्रभावदिमात्रम् । तत्र च भर्गोद इति ध्यानकार्यापेक्षं वर्णसूचनम् । तथाहि १४ भर्ग
Jain Education International
-
१. तन्त्रं ने। २. इत्यादि ने । ३. धी धीश्च( श्चि) त्तं तयः ने। ४. ध्वंसिते ने. । ५. समुच्चयस्य गम(म्य ) मानत्वात् ने. । ६. ० दिकं चतुरशीतिलक्षसङ्ख्याविच्छिन्नापाकरोती० ने. । ७. योनः ता. । ८. संसारोदधेः ने. । ९. कामक्रोधादि० ने. । १०. यो: नः प्रचोदयेत्यनेनैव कामादिध्वंसम( न ) मर्थापन्नं मुक्तताया सूत्रन्तरायकीत्वात्रार्थस्य धीमहि धिय इत्यनेनैवेति चेन्न ने. । ११. इति सर्वदर्शने मन्त्र - व्याख्या ने. । १२. • गायत्री सर्वज्ञबीजा० ने. । १३. भर्गोदे ने । १४. भर्ग इतीश्वर० ने. ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17