Book Title: Gayatri Mantra Vrutti Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ अनुसंधान-१७. 176 तदेव असाधारणगुणसम्पदा विशिनष्टि भूर्भुवःस्वस्तदिति । भूरित्यव्ययं भूलोके, भुव इति 'पाताललोके, स्वरिति स्वर्लोके । त्रयाणां द्वन्द्वे भूर्भुवः स्वः - अधस्तिर्यगूर्ध्वरूपं लोकत्रयम् । · तत् तनोति-ज्ञानात्मना व्याप्नोति भूर्भुवःस्वस्तत् । प्रसिद्धार्हत्सिद्धानां सर्वद्रव्यपर्यायविषयेण केवलज्ञानात्मना लोकत्रयव्याप्तिः ज्ञानात्मनोः स्यादभेदात् । शेषत्रयस्याऽपि श्रद्धानविषयतया, "सव्वगयं सम्मत्तं" इत्यादि वचनात्, सामान्यरूपतया ज्ञानाद्वा । अत एव सवितुर्वरेण्यं सहस्ररश्मेः प्रधानतरं तदुद्योतस्य देशविषयत्वात् प्रस्तुतपञ्चकसम्बन्धिनो भावोद्योतस्य सर्वविषयत्वात् । आश्च श्रीपूज्या: - "चंदाइच्चगहाणं पहा पयासेइ परिमिअं खित्तं । केवलियनाणलंभो लोआलोअं पयासेई' ॥ १ ॥" न चाऽऽचार्यादि परमेष्ठित्रयस्य कैवलिकज्ञानलम्भो नास्तीति वाच्यम् । तेषामपि कैवलिकज्ञानलम्भोपलब्धानां भावानां सामान्येन ज्ञानसद्भावादित्युक्तम् । भर्गोदे इति । भर्ग ‘ईश्वरः उ रिति ब्रह्मा, दयते पालयति जगदिति दो-विष्णुः । 'क्वचिदिति डे रूपम् । लोके हि जगद् ब्रह्मा उत्पादयति रजोगुणाश्रितः, विष्णुः स्थापयति सत्त्वगुणाश्रितः, ईश्वरः संहरति तामसभावाश्रितः इति । भर्गश्च उच दश्च भर्गोदं द्वन्द्वैकवद्भावात्, तस्मिन् । किंविशिष्टे ? वसि । वसतीति वस्, "विच्प्रत्यय रूपम्, तस्मिन् वसि । क्व वसि ? 'इत्याकाक्षायामाह___अधीमहि अस्याऽपत्यं इ: कामः, तस्य मह्यः १०-कामिन्यः, ता अधिकृत्यअधीमहि स्त्रीषु । तिष्ठमाने त्यायत्ताऽऽत्पनीत्याशय: । प्रतीतं च हि ब्रह्माविष्णु महेश्वरे]षु कामिनीपरवशत्वम्, पार्वत्यनुनयार्थं ईश्वरस्य ताण्डव'२डम्बरश्रुतेः । ब्रह्माणमधिकृत्य वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयदि" ति । विष्णोस्तु गोप्यादिवल्लभत्वोपदर्शकतत्तद्वचनश्रवणात् । पठ्यते च - १. भूलोके ता.। २. ०३ गाहा २ गाह्म ने. । ३. न वाऽऽचार्यादित्रयस्य केव० ने । ४. केवलिकज्ञानोपलब्धानां ने । ५. इतीश्वरः ने.। ६. वात् । किंवि० ता.। ७. विचिरूपम्. ने.। ८. ०रूपम् । क्व ० ता. । ९. इत्याह ने. । १०. भूमय: कामि. ने । ११. चैतदीश्वरब्रह्माविष्णुषु ने. । १३. ताण्डवाडम्बर० ने. । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17