Book Title: Gahakoso Part 1
Author(s): Satvahan, Madhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 217
________________ । २०८ गाहाकोसो . -५.७३] W471 ४७२) हंसेहि व मणहरजलयसमयभयचलियविहलवक्खेहिं । परिसेसियपउमासेहिं माणसं गम्मइ रिऊहिं ॥७२॥ W472 ४७३) दुग्गयहरम्मि घरिणो रक्खंती आउलत्तणं पइणो । पुच्छियदोहलसद्धा पुणो वि उययं चिय कहेइ ॥७३॥ दीहकसणाई दीर्घकृष्णानि । तह वि हु दटुं न याणंति तथापि खल्ल द्रष्टुं न जानन्ति । तस्या एव नायिकाया नयने निरीक्षितुं जानीत इति तत्कटाक्षपातप्रशंसापरेयमुक्तिः । पर्यायोक्तिरलंकारः ॥४७॥ ४७२) चुल्लोडकस्य । [ हंसैरिव मनोहरजलदसमयभयचलितविहलपक्षः । परिशेषितपनाशैर्मानसं गम्यते रिपुभिः ।। ] कश्चिन्नृपतिमुपगाथयितुमिदमाह । रिऊहिं माणसं गम्मइ रिपुभिर्मानसं गम्यते । कीदृशैः । मणहरजलय समयभयचलियविहलवक्खेहिं मनोहरो योऽसौ जलधरसमयः, तस्य भयेन चलितो विह्वलः पक्षो येषां तैस्तथोक्तैः । भूयश्च कोदृशैः । परिसेसियपउमासेहि परिशेषिता त्यक्ता पद्माया आशा यैः, तैस्तथोक्तैः । कैरिव । हंसेहि व । हंसैहि मनोहरजलदसमयभयचलितविहलपक्षैः परित्यक्तकमलाशैः, मानसं नाम सरो गम्यत इति । 'दुक्खं हयपोमासेहि माणसं गम्मइ रिऊहिं' इति पाठः । अत्र पक्षे मानसं दुक्खं रिपुभिर्गम्यत इति व्याख्येयम् । प्रदेषोऽलंकारः ॥४७२।। ४७३) हालस्य । [ दुर्गतगृहे गृहिणी रक्षन्ती आकुलत्वं पत्युः । पृष्टदोहदश्रद्धा पुनरपि उदकमेव कथयति ॥ ] घरिणी गृहिणी पुच्छियदोहलसद्धा उययं चिय कहेइ, तुभ्यं किं रोचत इति पृष्टा सती उदकमेव कथयति । इदं मे रोचत इत्यर्थः । क्व । दुग्गय हरम्मि दरिद्रगृहे । किं कुर्वतो । रक्खंती आउलत्तणं पइणो रक्षन्ती आकुलत्वं पत्युः । दुर्लभाभिलाषेण मा खलु अस्मत्पतिराकुलो भूदिति सुलभमेव सलिलं प्रार्थयत इत्यर्थः । स्वीया नायिका ॥४७३॥ १w. ०पोम्मासेहि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305