________________
। २०८ गाहाकोसो
. -५.७३] W471 ४७२) हंसेहि व मणहरजलयसमयभयचलियविहलवक्खेहिं ।
परिसेसियपउमासेहिं माणसं गम्मइ रिऊहिं ॥७२॥ W472 ४७३) दुग्गयहरम्मि घरिणो रक्खंती आउलत्तणं पइणो ।
पुच्छियदोहलसद्धा पुणो वि उययं चिय कहेइ ॥७३॥ दीहकसणाई दीर्घकृष्णानि । तह वि हु दटुं न याणंति तथापि खल्ल द्रष्टुं न जानन्ति । तस्या एव नायिकाया नयने निरीक्षितुं जानीत इति तत्कटाक्षपातप्रशंसापरेयमुक्तिः । पर्यायोक्तिरलंकारः ॥४७॥
४७२) चुल्लोडकस्य । [ हंसैरिव मनोहरजलदसमयभयचलितविहलपक्षः । परिशेषितपनाशैर्मानसं गम्यते रिपुभिः ।। ] कश्चिन्नृपतिमुपगाथयितुमिदमाह । रिऊहिं माणसं गम्मइ रिपुभिर्मानसं गम्यते । कीदृशैः । मणहरजलय समयभयचलियविहलवक्खेहिं मनोहरो योऽसौ जलधरसमयः, तस्य भयेन चलितो विह्वलः पक्षो येषां तैस्तथोक्तैः । भूयश्च कोदृशैः । परिसेसियपउमासेहि परिशेषिता त्यक्ता पद्माया आशा यैः, तैस्तथोक्तैः । कैरिव । हंसेहि व । हंसैहि मनोहरजलदसमयभयचलितविहलपक्षैः परित्यक्तकमलाशैः, मानसं नाम सरो गम्यत इति । 'दुक्खं हयपोमासेहि माणसं गम्मइ रिऊहिं' इति पाठः । अत्र पक्षे मानसं दुक्खं रिपुभिर्गम्यत इति व्याख्येयम् । प्रदेषोऽलंकारः ॥४७२।।
४७३) हालस्य । [ दुर्गतगृहे गृहिणी रक्षन्ती आकुलत्वं पत्युः । पृष्टदोहदश्रद्धा पुनरपि उदकमेव कथयति ॥ ] घरिणी गृहिणी पुच्छियदोहलसद्धा उययं चिय कहेइ, तुभ्यं किं रोचत इति पृष्टा सती उदकमेव कथयति । इदं मे रोचत इत्यर्थः । क्व । दुग्गय हरम्मि दरिद्रगृहे । किं कुर्वतो । रक्खंती आउलत्तणं पइणो रक्षन्ती आकुलत्वं पत्युः । दुर्लभाभिलाषेण मा खलु अस्मत्पतिराकुलो भूदिति सुलभमेव सलिलं प्रार्थयत इत्यर्थः । स्वीया नायिका ॥४७३॥ १w. ०पोम्मासेहि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org