Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 15
________________ १ सर्गः ] द्विसंधानम् । न्दनस्य ॥' अथवा अन्धकस्यारातेर्विघातस्य तपश्चर्यातश्चयवनस्य हेतुषु अनन्यसाधारणरूपकान्तिषु कामिनीषु धनुः समारोप्येत्यादि । श्लेषः ॥ ११ धनुर्गुणग्राहिषु नम्रवृत्तिषु प्रशुद्धवंशेषु परस्य पीडकम् । ऋजुप्रकारेषु कृतायतिष्वसौ भिनत्ति यस्यां हृदयानि मार्गणः ॥ ४० ॥ धनुरिति ॥ गुणो ज्या शास्त्रचातुरीलक्षणश्च । नम्रा नमनशीला मार्दवी च । वंशो वेणुरन्वयश्च । ऋजुः सरलः कृताञ्जलिश्च । आयतिर्दीर्घतोत्तरकालश्च । परिसंख्या ॥ विलोलनेत्रेषु कुशाग्रबुद्धिषु प्रगीतरतेषु मृगेषु चापलम् । न यत्र तीक्ष्णाः परदारवृत्तयः परे कृपाणात्कलहप्रवेशिनः ॥ ४१ ॥ विलोलेति ॥ कुशाग्रे बुद्धिर्येषाम् । कुशाग्र इव तीक्ष्णा बुद्धिर्येषाम् । तीक्ष्णास्तीत्रा हिंस्राश्च । परेषां दारे विदारणे वृत्तिर्येषाम् परेषां दारेषु पत्नीषु वृत्तिर्येषाम् इति च ॥ कलहः कोशः कलिश्च । कृपाणात्खङ्गात् । परिसंख्या ॥ प्रकोपनिर्मीलितरक्तलोचनं तलप्रहाराहतकीर्णशेखरम् | रतेषु दष्टाधरमाहृतांशुकं परं न यस्यां कदनं कचाकचि ॥ ४२ ॥ प्रकोपेति ॥ यस्यां प्रकोपेन विस्फुरितानि रक्तनेत्राणि यत्र, तलप्रहारेण पूर्वमाहताः पश्चात्कीर्णाः शेखराः केशबन्धनानि यत्र, कचेषु कचेषु गृहीत्वा प्रवृत्तं कदनं युद्धं सुरतेषु परं वर्तते नान्यत्र । परिसंख्या ॥ जघन्यवृत्ति पुरि यत्र काञ्चयः श्रयन्ति कर्णेजपतां च कर्णिकाः । परस्य वा कण्ठकचग्रहोत्सवं व्रजन्ति मुक्तावलयो न योषितः ॥ ४३॥ जघन्येति ॥ जघन्या जघनभवा अधमा च । काञ्श्चयः कटिसूत्राणि । कर्णेजपता कर्णसामीप्यं सूचकता च । कर्णिकास्ताटङ्कभूषणानि । परिसंख्या ॥ मदच्युता नीरदनादबृंहिता भवन्ति यस्यामवदानवृत्तयः । अनुत्कटा नित्यविहस्तसंश्रया महारथा न द्विरदाः कदाचन ॥ ४४ ॥ मदेति ॥ यस्यां मदेभ्यो जातिकुलैश्वर्यरूपाभिमानज्ञानतपः सिद्धिशिल्पिलक्षणेभ्यश्चयुताः, मेघनादवर्धिताः, अवदाने त्यागशौर्यप्रसिद्धौ वृत्तिर्येषाम्, अतीत्राः, नित्यं विहस्तानां निराश्रयाणां संश्रया महारथां भवन्ति ॥ द्विरदा गजा न गण्डक्षरणलक्षणेन मदेन च्युताः, रदैर्दन्तैर्नादैर्ध्वनिभिर्बृहितैश्चीत्कृतैर्वर्जिताः, अवगतकटोद्भेदानान्तरीयवृत्तयः, नोद्भिन्नाः कटाः कपोला येषाम्, अनवरतविशिष्टकरसमाश्रयाः, कदापि भवन्ति । श्लेषपरिसंख्ये ॥ जले जने नक्रमहानियोजनं धनुर्भूतां ज्यानिहतिर्न संपदाम् । रणे यतौ चापगुणेन संग्रहो विशालता यत्र न सा विशालता ॥ ४५ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 230