Book Title: Dwatrinshad Dwatrinshika Prakaran Author(s): Yashovijay Upadhyay, Yashovijay Publisher: Divya Darshan Trust View full book textPage 8
________________ ज ।। ३ वृ.) इति अष्टकवृत्त्यनुसारेणाचार्यादिष्वप्युत्कृष्टत्वधियोऽप्रतिरोधेऽनुकम्पाऽव्याहतेति । एतन्नये च सुपात्रदानमपि गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणमनुकम्पादानमेव, साक्षा। त्स्वेष्टोपायत्वेनेष्यमाणं चान्यथेति बोध्यम् ।।२।। तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पाऽसुखश्रमात् । पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् ।।३।। तत्रेति । तत्र = भक्त्यनुकम्पयोर्मध्ये आद्या = अनुकम्पा दुःखिना = दुःखार्तानां पुंसां दुःखोद्दिधीर्षा = दुःखोद्धारेच्छा, अल्पानामसुखं यस्मादेतादृशो यः श्रमस्तस्मात् (= दुःखोद्दिधीर्षाल्पाऽसुखश्रमात्) । इत्थं च वस्तुगत्या बलवदनिष्टाननुबन्धी यो दुःखिदुःखोद्धारस्तद्विषयिणी स्वस्येच्छाऽनुकम्मेति फलितम्। उदाहरति- यथा जिनार्चादी कार्ये पृथिव्यादौ विषये तदनुकम्पिनां ='इत्थम्भूतभगवत्पूजाप्रदर्शनादिना प्रतिबुद्धाः सन्तः षट्कायान् रक्षन्त्वि'ति परिणामवतामित्यर्थः । यद्यपि जिनार्चादिकं भक्त्यनुष्ठानमेव, तथापि तस्य सम्यक्त्वशुद्ध्यर्थत्वात् तस्य चानुकम्पालिङ्गकत्वात् तदर्थकत्वमप्यविरुद्धमेवेति, पञ्चलिङ्ग्यादावित्थं व्यवस्थितेरस्माभिरप्येवमुक्तम् ।।३।। अल्पासुखश्रमादित्यस्य कृत्यमाह - स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् । तत्रानुकम्पा न मता यथेष्टापूर्तकर्मसु ।।४।। १. हस्तादर्श 'एतन्नये' नास्ति । २. हस्तादर्श'... दिकार्ये' इत्यशुद्धः पाठः । ३. 'व्यस्थि...' इत्यशुद्धः पाठो हस्तादर्श। ।।३।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 548