Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 7
________________ । मोक्षफलकत्वाभिधानात् ।।१।। अनुकम्पाऽनुकम्प्ये स्याद् भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातृणामतिचारप्रसञ्जिका ॥२॥ अनुकम्पेति । अनुकम्पाऽनुकम्प्ये विषये, भक्तिस्तु 'पात्रे साध्वादौ सङ्गता स्यात् = समुचितफलदा स्यात् । अन्यथाधीस्तु = अनुकम्प्ये सुपात्रत्वस्य सुपात्रे चानुकम्प्यत्वस्य बुद्धिस्तु दातॄणामतिचारप्रसञ्जिका = अतिचारापादिका । अत्र यद्यपि सुपात्रत्वधियोऽनुकम्प्येऽसंयतादौ मिथ्यारूपतयाऽतिचारापादकत्वं युज्यते, सुपात्रेऽनुकम्प्यत्वधियस्तु न कथञ्चित्, तत्र ग्लानत्वादिदशायामन्यदापि च स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपानुकम्प्यत्वधियः प्रमात्वात्, तथापि स्वापेक्षया हीनत्वे सति स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपमनुकम्प्यत्वं तत्राप्रामाणिकमेवेति न दोषः । ___ अपरे त्वाहुः- तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनत्वबुद्धिं जनयति तदैवातिचारापादकं, नान्यदा, अन्यथाधियो हीनोत्कृष्टयोरुत्कर्षापकर्षबुद्ध्याधानद्वारैव दोषत्वात् । अत एव → न चानुकम्पादानं साधुषु न सम्भवति, "आयरिय अणुकम्पाए गच्छो अणुकम्पिओ महाभागो" इति वचनाद् + (अष्टक २७/ १. हस्तादर्श :...सुपात्रे' इति अर्थत: शुद्धोऽपि मूलानुसारेणाऽशुद्धः पाठः । २. मुद्रितप्रतो 'बुद्धया...' इत्यशुद्धः पाठः। ३. हस्तप्रतौ ....कंपयाए...' इति पाठः । । ॥२ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 548