Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
// तु' इत्यभ्युच्चये । अन्यद् = अधिकृतगुणस्थानकान्मिथ्यादृष्टित्वादेरपरमविरतसम्यग्दृष्ट्यादिकं
गुणानां = ज्ञानादीनां स्थानं (= गुणस्थानं) मतं गुणान्तरस्य सर्वविरत्यादेर्निबन्धनम् (= गुणान्तरनिबन्धनम्) ।।११।।
नन्वेवं 'गिहिणो वेयावडिअं न कुज्जा' (दशवैकालिक-चूलिका २/९) इत्याद्यागमविरोध इत्यत आह
वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः ।
स औत्सर्गिकता' बिभ्रन्नैतस्यार्थस्य बाधकः ॥१२॥ वैयावृत्त्य इति । गृहस्थानां वैयावृत्त्ये तु साधोः निषेधः यः श्रूयते, स औत्सर्गिकतां बिभ्रन्नैतस्य आपवादिकस्य अर्थस्य बाधकः । अपवादो ह्युत्सर्गं बाधते, न तूत्सर्गोऽपवादमिति ।।१२।। सूत्रान्तरं समाधत्ते
ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि सङ्गतः ।
विहाय विषयो मृग्यो दशाभेदं विपश्चिता ।।१३।। ये त्विति । ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि- 'जे या दाणं पसंसंति वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति वित्तिच्छेअं करेंति ते ।। (सूत्रकृताड्ग १/११/२०) इति ।। ।।७।। १. हस्ताद” ....कतं..' इत्यशुद्धः पाठः । १. मुद्रितप्रतौ 'उ' इति पाठः । ३. हस्तादर्श 'करिति' इति पाठान्तरम् । मुद्रितप्रतौ च 'करंति' इति पाठान्तरम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 548