Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 15
________________ ।। स्वतो नश्वरत्वात् = नाशशीलत्वात् । शास्त्रार्थाऽबाधेन निर्जराप्रतिबन्धपुण्यबन्धाभावान्नात्र || दोष इति गर्भार्थः ।।१७।। भोगाप्तिरपि नैतस्मादभोगपरिणामतः । मन्त्रितं श्रद्धया पुंसां जलमप्यमृतायते ।।१८।। भोगाप्तिरिति । भोगाप्तिरपि नैतस्माद् = आपवादिकानुकम्पादानात्, अभोगपरिणामतः = भोगानुभवोपनायकाध्यवसायाभावात् । दृष्टान्तमाह- मंत्रितं जलमपि पुंसां श्रद्धया = भक्त्या अमृतायते = अमृतकार्यकारि भवति । एवं हि भोगहेतोरप्यत्राध्यवसायविशेषाद् भोगानुपनतिरुपपद्यत इति भावः ।।१८।। नन्विदं हरिभद्रसम्मत्या भवद्भिर्व्यवस्थाप्यते, तेनैव चाभिनिविश्योक्तमित्याशङ्क्याह न च स्वदानपोषार्थमुक्तमेतदपेशलम्। 'हरिभद्रो ह्यदोऽभाणीद् यतः संविग्नपाक्षिकः ॥१९॥ न चेति । न च स्वदानस्य = स्वीयासंयतदानस्य पोषार्थं = समर्थनार्थं ( = स्वदानपोषार्थ) उक्तमेतद् अपेशलं = असुन्दरम् । यतः = यस्मात् संविग्नपाक्षिको हरिभद्रोऽदः = प्रागुक्तं हि = निश्चितं अभाणीत् । न हि संविग्नपाक्षिकोऽनृतं ब्रूते । तदुक्तं सप्तविंशतितमाष्टकविवरणे१. मुद्रितप्रतौ इदं पदं नास्ति । २. हस्तादर्श ...बन्धपुण्य..' इति पाठः । ३. हस्तप्रतौ 'हरिदो' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘णीद्योतः' इत्यशुद्धः पाठः । ५. हस्तादर्श ...भाणी' इत्यशुद्धः पाठः ।। ॥॥१०॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 548