Book Title: Dwatrinshad Dwatrinshika Prakaran Author(s): Yashovijay Upadhyay, Yashovijay Publisher: Divya Darshan Trust View full book textPage 9
________________ To It To For स्तोकानामिति- स्पष्ट: । नवरमिष्टापूर्तस्वरूपमेतत्ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ।। वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ।। (योगदृष्टिससमुच्चय ११६-११७) इति ।।४।। नन्वेवं कारणिकदानशालादिकर्मणोऽप्युच्छेदापत्तिरित्यत आह - पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् । तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः ।।५।। बहूनामुपकारेण नानुकम्पानिमित्तताम् । अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः ॥६॥ पुष्टालम्बनमिति । पुष्टालम्बनं = सद्भावकारणं आश्रित्य यद्दानशालादिकर्म प्रदेशिसम्प्रतिराजादीनां, तत्तु प्रवचनस्य प्रशंसादिना उन्नत्या (= प्रवचनोन्नत्या बीजाधानादिभावतः) बीजाधानादीनां भावतः = सिद्धेर्लोकानाम् ।।५।। बहूनामिति । ततो निर्वृतिसिद्धेः बहूनामुपकारेणानुकम्पानिमित्ततां नातिक्रामति । तेन कारणेन अत्र = अनुकम्पोचितफले मुख्यः शुभाशयो हेतुः, दानं तु गौणमेव, 'वेद्यसंवेद्यपदस्थ एव तादृगाशयपात्रं, तादृगाशयानुगम एव च निश्चयतोऽनुकम्पेति फलितम् १. हस्तादर्श 'वैद्य...' इत्यशुद्धः पाठः । ।।४।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 548