Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
॥सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ।।
स्वस्ति श्रीमेदपाटाख्यो देशो भारत विश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः। श्रीमञ्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुअ-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता। चातुर्य-रूप-लावण्य सुवाक्-सौजन्यभूषिता ॥ अत्रियाणीप्रभापूर्णां शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा त्वियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहन् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्वाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥ ११
तथा चमानत्वा नेकेषु देशेषु सेविस्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ लधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रल-नूतनकालिकाः ॥ येन प्रकाशिता नेके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतियतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वगिस्तन्मगटलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुति ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तत्रोचनियुक्तः स महात्मना । रस-मुनि-निधीन्द्वब्दे पुरातत्त्वाख्यमन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः। गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् । तत आगत्य सल्लग्नो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्ति निकेतने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैनज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातभ्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ।। तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे वेषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थप्रवृत्तिषु प्रयस्यतः॥ बाणे-रा-नवेन्द्वब्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मिती । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्या भवन सज्ञया । भाहूतः सहकाराय सुहृदा स मुनिः कृतौ । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् । तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्यक-चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भाविद्याभवनायेयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः। स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ देवादल्ये गते काले सिंघीवयों दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थ यलशीलस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्व सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थ पितृवत्तस्य कांक्षितम् । श्रीसिंधीबन्धुभिः सर्वं तगिराऽनुविधीयते । विद्वजनकृताहादा सच्चिदानन्ददा सदा। चिरं नन्दत्वियं कोके जिन विजयभारती॥
rrrrNNNNNYMN00
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 296