Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
________________
॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ।।
१४
अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा। मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुरीं धृतधर्मार्थनिश्चयः॥ कुशाग्रीयस्वबुद्ध्यैव सद्वृत्त्या च सुनिष्टया । उपायं विपुलां लक्ष्मी कोट्यधिपोऽज निष्ट सः ॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा ॥ श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ।। प्राप्ता पुण्यवता तेन पनी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुवीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ अन्येऽपि बहवस्तस्याभवन् स्वस्त्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥
अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तञ्चित्रं विदुषां खलु॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः। दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सजनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग-ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्धयर्थं यतनीयं मयाऽप्यरम् ॥ २१ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्ति नि के त ने । सिंधीपदाङ्कितं जैन ज्ञा न पीठ मतीष्टिपत् ।। श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्त्रीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैर्यौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नांगाङ्क-चन्द्राद्धे तत्प्रतिष्ठा व्यधीयत ॥ प्रारब्धं मुनिना चापि कार्यं तदुपयोगिकम् । पाटनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् । जलवाय्वादिकानां तु प्रातिकूल्यादसौ मुनिः । कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः ॥ नन्द-निध्य-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्धावल्याः स्थिरत्वाय विस्तराय च नुतना ततः सुहृत्परामर्शात् सिंधीवंशनभस्वता । मा विद्या भवना येयं प्रन्थमाला समर्पिता ।। आसीत्तस्य मनोवाञ्छाऽपूर्वी अन्धप्रकाशने । तदर्य चयित नेज लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद विधेर्हन्त ! दौर्भाग्याञ्चालाबन्धूनाम् । स्वल्पे वाय कालेन स्वर्गस सुकृती ययौ ॥ इन्दु-ख-शून्य नेताब्दे मासे आषाढलज्ञके । कलिकाताख्यपुर्याप प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैः प्रेयसे पिनुरात्मनः। तथैव प्रपितुः स्मृत्य प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ विद्वजनकृतालादा सच्चिदानन्ददा सदा । चिरं नन्दस्वियं लोके श्रीसैंधी अन्थपद्धतिः ।।
CCUW.AAG
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 296