Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 327
________________ सप्तमः पल्लवः ] अस्मिन् जन्मनि मे भर्त्ता, चन्द्रोदयकुमारराट् । सहोदरा नरा अन्ये, ममासौ निश्चयः सदा ॥ २६३|| असौ शैलपुराधीशः, समराद्विजयो नृपः । तां कन्यामन्यदा तस्याः पितुः पार्श्वोदयाचत ॥२६४॥ प्रतिज्ञामिति विज्ञाय, न ददाति पिता सुताम् । समरस्तत्पुरोद्याने, ससैन्योऽथ समागतः ॥२६५॥ गुप्तवृत्त्या स्थितस्तत्र, कन्या क्रीडार्थमागता । पाप्यसौ विलपन्तीं तां हृत्वा भूप इहागतः ॥२६६|| अत्रस्थं त्वां कुतो हेतोर्ज्ञात्वाऽयं हन्तुमुद्यतः । कन्याधात्री त्वहं स्नेहात् तत्पृष्टिं द्रुतमागता || २६७॥ श्रुत्वा त्वन्नाम सैन्येऽत्र, मया त्वं चोपलक्षितः । अस्मात् समरविजया- त्तां कन्यां त्वं विमोचय ॥ २६८ ॥ कुरु पाणिग्रहं तस्याः, पूर्णा सन्धा यथा भवेत् । अस्या भाग्येन लब्धस्त्वं, प्रसङ्गाद् वाञ्छितो वरः ॥२६९॥ हृष्टेन समरेणाथ, भुवनश्रीः कुमारिका । सुशृङ्गारितसर्व्वाङ्गा, दत्ता चन्द्रोदयाय सा ॥२७०॥ सङ्क्षेपात् परिणीताऽथ, वने चन्द्रोदयेन सा । नत्वा कुमारमापृच्छ्य, स्वस्थाने समरो गतः || २७१॥ आरुह्याथ रथं रम्यं, कुमारः कन्यया सह । श्रीकुशवर्द्धनपुरे, गन्तुं मार्गे प्रवर्त्तितः ॥२७२॥ ss कियत्यपि गते मार्गे, तेन क्वापि वने वरे । अपूर्व्वध्वनिमद्गानं श्रुतमन्यत्र मार्गतः ॥ २७३ ॥ मत्वा कुतूहलं तत्र, रथं मुक्त्वा प्रियायुतम् । गतो नादानुमानेन, ददर्शाग्रे स ईदृशम् ॥२७४|| तत्रैकास्ति महावाटी, विविधद्रुमपूरिता । आवासश्चास्ति तन्मध्ये, सप्तभूमिमनोहरः || २७५।। [ ३०७ 5 10 151 20 25

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405