Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
३४]
10
[धर्मकल्पद्रुमः पक्षिणा वज्रतुण्डेन, चञ्च्वा च घातितो मुनिः । यक्षराक्षससर्पणां, रौद्ररूपैश्च भापितः ॥३८०।। एवं स क्षुभ्यमाणोऽपि, ध्यानान्न क्षुभितो मुनिः । दृष्ट्वा तस्य क्षमां देवः, स्वयं तत्याज मत्सरम् ॥३८१।। उपदेशान्मुनेर्देवः, प्रतिबोधमवाप सः । सम्प्राप शुद्धसम्यक्त्वं, भवे कस्मिन् गतः शिवम् ॥३८२॥ चन्द्रोदयोऽपि राजर्षिः, कृत्वा ध्यानं सुभावतः । अवाप केवलज्ञानं, ययौ च निर्वृति क्रमात् ॥३८३॥ यथौषधं भावनाभि वितं गुणकृद्भवेत् ।
भावयुक्तस्तथा धर्मः, प्राणिनां फलदो मतः ॥३८४॥ यतः- दानशीलतपःसम्पद् , भावेन भजते फलम् ।
स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना ? ॥३८५॥ सम्प्राप केवलज्ञानं, भरतो भावनाबलात् । मृगोऽपि च ययौ स्वर्गं, बलदेवर्षिसंयुतः ॥३८६॥ एवं चतुर्थशाखायां, भावोपरि कथा मया ।
चन्द्रोदयनरेशस्य, प्रोक्ता वैराग्यकारिणी ॥३८७॥ इत्यागमगच्छे श्रीपूज्यपरमगुरुश्रीश्रीश्रीमुनिसिंहसूरितत्पट्टे श्रीशीलरत्नसूरितत्पट्टाम्बुजदिनकरश्रीश्रीश्रीआणन्दप्रभसूरितत्पट्टविभूषणनिजितसमस्तदूषण
श्रीमुनिरत्नसूरिः तत्पट्टालङ्कारश्रीश्रीश्रीआणन्दरत्नसूरीश्वरविजयवान्ाज्ये श्रीमत्श्रीमहोपाध्यायश्रीमुनिसागरतत्शिष्यपण्डितश्रीउदयधर्मगणिविरचिते पं० श्रीधर्मदेवगणिशोधिते इत्यागमोक्ते महाकाव्ये श्रीवीरदेशनायां
धर्मकल्पद्रुमे चतुर्थभावनाशाखायां चन्द्रोदयनृपाख्याने
अष्टमः पल्लव: चतुर्थवैराग्यशाखा च समाप्ता ॥८॥ इत्यागमिकोदयधर्मगणिरचितो धर्मकल्पद्रुमः समाप्तः ॥
20

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405