Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 357
________________ अष्टम: पल्लव: ] मांसाशन्या पुरीलोको, भक्षितः सकलस्तया । ततो योजनमात्रेयं, शिरोभिर्मण्डिता मही ॥ २४३॥ तद्यात यात रे शीघ्रं यावत् सा न विलोकयेत् । प्रेरयन्तोऽश्ववर्गं ते, भयात् तस्याः पलायिताः ॥ २४४॥ मध्याह्नसमये यावन्नायातास्ते निजे गृहे । नार्य्यः सम्भूय ताः प्रोचुर्मातर्नायान्ति ते नराः || २४५॥ नकटी चङ्गमादाय, सौधशृङ्गोपरि स्थिता । व्रजतो वायुवेगेन, हयान् वीक्ष्येत्युवाच सा ॥ २४६॥ तुरगान् वालयध्वं भोश्चङ्गं चाताडयत् दृढम् । चङ्गशब्देन तेनाथ, वालितास्ते तुरङ्गमाः ॥२४७॥ झम्पां प्रदातुकामास्तु, कीलिता न पतन्ति ते । आः किं भविष्यत्यस्माकं, जल्पन्तीति मिथो भयात् ॥ २४८ ॥ आगताः सौधमध्यं ते, नकट्या भणिता रुषा । मां विमुच्य क्व यातार:, पापा विश्वस्तघातकाः ? ॥२४९॥ सा कर्त्तिकां करे कृत्वा, यमजिह्वाकरालिताम् । धृष्टं दुष्टा कचैर्धृत्वा, पातयामास भूतले ॥२५०॥ हृदये न्यस्य पादौ सा, भाषते स्म खराक्षरम् । त्वं चलितोऽश्वमारुह्य, त्वां हन्मि प्रथमं ततः ॥ २५९॥ दैवतं त्वं स्मराभीष्टं, न भविष्यस्यतः परम् । तयेति भाषितो निर्भीः, सहास्यं वदति स्म सः ॥ २५२॥ एकं पृच्छामि निर्नासे !, कौतुकं हृदये मम । कोऽयं वीराग्रणीर्धीरो, यश्छेत्ता तव नासिकां ॥२५३॥ शान्तकोपाऽथ निर्नासा, हर्षबाष्प्रपूरिता । धृष्टं विमुच्य सा प्राह, वत्स ! स्वच्छमनाः शृणु ॥ २५४ ॥ मनोरमपुरं नाम, स्वर्गतुल्यं महीतले । राजा मणिरथो राज्ञी, मणिमाला बभूव च ॥२५५॥ [ ३३७ 5 10 15 20 25

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405