Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 356
________________ [धर्मकल्पद्रुमः सा प्रोचे वत्स ! सप्तापि, विद्याधरसुता इमाः । आसां वरकृते पृष्टो, मया नैमित्तिकोऽन्यदा ॥२३०॥ अत्रस्थानां हि सप्तानां, वराप्तिस्तेन भाषिता । इहानीता मया तस्माद् , यूयमप्यागता वराः ॥२३१।। उद्वाह्येमाः सुखं भोगा, भुज्यन्तां पुण्यसञ्चिताः । सौधापवरका रम्या, सौरभ्यद्रव्यवासिताः ॥२३२॥ हंसतूलीपरिच्छिन्नाः, पल्यङ्का हृदयङ्गमाः । चित्रशाला इमा वत्सा !, वातायनमनोहराः ॥२३३।। अमी सप्त तुरङ्गाश्च, मनोवेगानुगामिनः । मुक्त्वा पूर्वदिशं यूयं, विचरध्वं यदृच्छया ॥२३४।। कृतोद्वाहाः समं ताभिस्तेऽनङ्गसुखलालसाः । रमन्ते रङ्गशालासु , दोगुन्दुकसुरा इव ॥२३५।। कदा चक्रुजलक्रीडां, पुष्पवचयमुत्तमम् । बद्धदोलाश्च खेलन्ति, चम्पकद्रुमशाखिषु ॥२३६॥ पूर्वा निवारिता रन्तुं , कारणं किमहो महत् ? । मिथस्ते विमृशन्त्येवं, रक्ष्यमाणे स्पृहा भवेत् ॥२३७।। एकदा तुरगारूढा, गताः पूर्वदिशं प्रगे। आयोजनं नृशीषैश्च, व्याप्तां भूमिं व्यलोकयन् ॥२३८।। परस्परं प्रजल्पन्ति, किमेतदद्भुतं क्षितौ । न दृष्टं न श्रुतं क्वापि ?, कस्याग्रे कथ्यतेऽथवा ? ॥२३९॥ अथाश्वखुरघातेन, हता तुम्ब्यहसद्रयात् । अरे तुरङ्गमा रामाः, पूर्वमस्माभिरादृताः ॥२४०।। धष्टोऽथ धैर्यमालम्ब्य, पृष्टवान् वरदे स्फुटे (वद रे स्फुटम्) । के तेऽथवा वनिताः काश्च, कथं भूः शीर्षसङ्कला ? ॥२४१।। तुम्बी ब्रूते नकट्येषा, सिद्धशीकोतरी यया । विप्रतार्य हयैः स्त्रीभिरस्मदाद्या नरा हताः ॥२४२॥ 25

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405