________________
[धर्मकल्पद्रुमः सा प्रोचे वत्स ! सप्तापि, विद्याधरसुता इमाः । आसां वरकृते पृष्टो, मया नैमित्तिकोऽन्यदा ॥२३०॥ अत्रस्थानां हि सप्तानां, वराप्तिस्तेन भाषिता । इहानीता मया तस्माद् , यूयमप्यागता वराः ॥२३१।। उद्वाह्येमाः सुखं भोगा, भुज्यन्तां पुण्यसञ्चिताः । सौधापवरका रम्या, सौरभ्यद्रव्यवासिताः ॥२३२॥ हंसतूलीपरिच्छिन्नाः, पल्यङ्का हृदयङ्गमाः । चित्रशाला इमा वत्सा !, वातायनमनोहराः ॥२३३।।
अमी सप्त तुरङ्गाश्च, मनोवेगानुगामिनः । मुक्त्वा पूर्वदिशं यूयं, विचरध्वं यदृच्छया ॥२३४।। कृतोद्वाहाः समं ताभिस्तेऽनङ्गसुखलालसाः । रमन्ते रङ्गशालासु , दोगुन्दुकसुरा इव ॥२३५।। कदा चक्रुजलक्रीडां, पुष्पवचयमुत्तमम् । बद्धदोलाश्च खेलन्ति, चम्पकद्रुमशाखिषु ॥२३६॥ पूर्वा निवारिता रन्तुं , कारणं किमहो महत् ? । मिथस्ते विमृशन्त्येवं, रक्ष्यमाणे स्पृहा भवेत् ॥२३७।। एकदा तुरगारूढा, गताः पूर्वदिशं प्रगे। आयोजनं नृशीषैश्च, व्याप्तां भूमिं व्यलोकयन् ॥२३८।। परस्परं प्रजल्पन्ति, किमेतदद्भुतं क्षितौ । न दृष्टं न श्रुतं क्वापि ?, कस्याग्रे कथ्यतेऽथवा ? ॥२३९॥ अथाश्वखुरघातेन, हता तुम्ब्यहसद्रयात् । अरे तुरङ्गमा रामाः, पूर्वमस्माभिरादृताः ॥२४०।। धष्टोऽथ धैर्यमालम्ब्य, पृष्टवान् वरदे स्फुटे (वद रे स्फुटम्) । के तेऽथवा वनिताः काश्च, कथं भूः शीर्षसङ्कला ? ॥२४१।। तुम्बी ब्रूते नकट्येषा, सिद्धशीकोतरी यया । विप्रतार्य हयैः स्त्रीभिरस्मदाद्या नरा हताः ॥२४२॥
25