________________
अष्टम: पल्लव: ]
मांसाशन्या पुरीलोको, भक्षितः सकलस्तया । ततो योजनमात्रेयं, शिरोभिर्मण्डिता मही ॥ २४३॥ तद्यात यात रे शीघ्रं यावत् सा न विलोकयेत् । प्रेरयन्तोऽश्ववर्गं ते, भयात् तस्याः पलायिताः ॥ २४४॥ मध्याह्नसमये यावन्नायातास्ते निजे गृहे । नार्य्यः सम्भूय ताः प्रोचुर्मातर्नायान्ति ते नराः || २४५॥ नकटी चङ्गमादाय, सौधशृङ्गोपरि स्थिता । व्रजतो वायुवेगेन, हयान् वीक्ष्येत्युवाच सा ॥ २४६॥ तुरगान् वालयध्वं भोश्चङ्गं चाताडयत् दृढम् । चङ्गशब्देन तेनाथ, वालितास्ते तुरङ्गमाः ॥२४७॥ झम्पां प्रदातुकामास्तु, कीलिता न पतन्ति ते । आः किं भविष्यत्यस्माकं, जल्पन्तीति मिथो भयात् ॥ २४८ ॥ आगताः सौधमध्यं ते, नकट्या भणिता रुषा । मां विमुच्य क्व यातार:, पापा विश्वस्तघातकाः ? ॥२४९॥ सा कर्त्तिकां करे कृत्वा, यमजिह्वाकरालिताम् । धृष्टं दुष्टा कचैर्धृत्वा, पातयामास भूतले ॥२५०॥ हृदये न्यस्य पादौ सा, भाषते स्म खराक्षरम् । त्वं चलितोऽश्वमारुह्य, त्वां हन्मि प्रथमं ततः ॥ २५९॥ दैवतं त्वं स्मराभीष्टं, न भविष्यस्यतः परम् । तयेति भाषितो निर्भीः, सहास्यं वदति स्म सः ॥ २५२॥ एकं पृच्छामि निर्नासे !, कौतुकं हृदये मम । कोऽयं वीराग्रणीर्धीरो, यश्छेत्ता तव नासिकां ॥२५३॥ शान्तकोपाऽथ निर्नासा, हर्षबाष्प्रपूरिता ।
धृष्टं विमुच्य सा प्राह, वत्स ! स्वच्छमनाः शृणु ॥ २५४ ॥ मनोरमपुरं नाम, स्वर्गतुल्यं महीतले । राजा मणिरथो राज्ञी, मणिमाला बभूव च ॥२५५॥
[ ३३७
5
10
15
20
25