________________
]]
[धर्मकल्पद्रुमः तनयाः सप्त सञ्जाता, शौर्यधैर्यगुणान्विताः । राजपत्न्युदरे प्रान्तेऽष्टमो गर्भः सुदुर्व्वहः ॥२५६।। जाताऽहं पुत्रिका पञ्चधात्रीभिः परिपालिता । पित्रा दत्त्वा कलाचार्ये, कृता शास्त्राब्धिपारगा ॥२५७|| यौवनावसरे जाता, मन्त्रे मे महती स्पृहा । वशाकर्षणसन्तापस्तम्भविद्वेषमोहने ॥२५८।। राक्षसी विद्येच्छारूपं मारणं बलम् । सूर्यचन्द्रमसां मन्त्रं पातालविवरे गतिः ॥२५९।। आकाशगामिनी विद्या, बलिमन्त्रप्रसाधनम् । मृतसञ्जीविनी विद्या, मयैवं शिक्षिताः कलाः ॥२६०॥ त्रिभिविशेषकम्इतश्च गिरिवैताढ्ये, इन्द्रो राजाऽस्ति येन च । रम्भादिरचनायोगादिन्द्रराज्यस्थितिः कृता ।।२६१।। विद्ययाऽऽकाशगामिन्या, वैताढ्येऽहं गताऽन्यदा । रम्भातिलोत्तमामुख्यैरारब्धं तत्र नर्त्तनम् ॥२६२॥ एकदा नागता रम्भा, तद्रूपा चाहमागता । नृत्येन रञ्जितः शक्रः, प्रोचे रम्भे ! वरं वृणु ॥२६३।। मया स्वरूपधारिण्या, याचितं त्वं धवो भव । प्रतिपन्नमिदं देवराजेन विधियोगतः ॥२६४॥ प्रत्यहं यामि वैताढ्ये, रमामीन्द्रेण संयुता । मम प्रीतिकरः पुष्पबटुकोऽप्यन्यदाऽवदत् ॥२६५।। सत्प्रिये ! नय मां सार्थे, पश्यामि तव नाटकम् । वारितोऽपि मया बाढं, प्रार्थयति पुनः पुनः ॥२६६।। मुकुटान्तर्मया क्षिप्तः, कीररूपं विधाय सः । वैताढ्येऽहं गता चेन्द्रपुरतो नतिता भृशम् ॥२६७।। लयमध्ये मया हस्तः, क्षिप्तः शिरसि भारतः । भग्नतालां बिडौजा मां, ब्रूते भग्नं च नाटकम् ॥२६८।।