________________
अष्टम: पल्लवः ]
इति शापो ददे कोपान्निर्नासा भव याहि रे । त्वं क्षितौ चात्र नागम्यं, फलं भुङ्क्ष्व प्रमादजम् ॥२६९॥ मयाऽथ चरणौ नत्वा, विज्ञप्तः स प्रसीद मे । देवेन्द्र ! मम शापस्यानुग्रहो भविता कदा ? || २७०॥ सोऽवादीन्नरमांसं त्वां, खादन्तीं कोऽपि साहसी । पृच्छेत् ते नासिका, केन, छिन्ना शापक्षयस्तदा ॥ २७१ || तद्दिनान्नगरीलोको, भक्षितः सकलो मया । रामातुरङ्गमैरेतैर्विप्रतार्य विशेषतः ॥ २७२॥ योजनायाममात्रोऽयं, तुम्बीनां च महोत्करः । कृतो मया न केनेदं, पृष्टं वत्स ! त्वया विना ॥ २७३॥ पृच्छया तव नासा मे, नवाऽऽयाता नरोत्तम ! | अद्येन्द्रशापमुक्तिश्च, बभूव त्वं चिरञ्जय ॥२७४॥ वत्सेदं नगरं रम्यं भार्या एताः सुरूपिकाः । तुरङ्गमा वरं सौधं, राज्यं कुरुत मत्पदे ||२७५॥ लोकपूर्णं पुरं कृत्वा, विद्यया सा निदे पदे । धृष्टं संस्थाप्य वैताढ्ये, गता तस्थौ च पूर्व्ववत् ॥२७६॥ मनोरमपुरे धृष्टः, साम्राज्यं कुरुते बली । षट् तानि पूर्वमित्राणि, मण्डलीकपदेऽभवन् ॥२७७॥ साम्राज्यं कुर्व्वतस्तस्योद्यानपालोऽन्यदाऽवदत् । अनेकशिष्यसंयुक्ताः सूरीशा आगता वने ॥ २७८ ॥ राजाऽथ सर्व्वसामग्र्या, चलितो वन्दितुं गुरून् । सूत्रिताभिगमः सूरिं, वन्दित्वोपाविशत् पुरः ||२७९।। सूरिर्गम्भीरया वाचा, बभाषे धर्ममार्हतम् । धम्मिष्ठाः पुरुषा ज्ञेयाः, शेषाः कापुरुषा नराः ॥ २८०॥ लब्ध्वा यो मानुषं जन्म, न धर्मं कुरुतेऽधमः । स रोहणगिरिं प्राप्तश्चिन्तारत्नं समुज्झति ॥२८१ ॥
[ ३३९
5
10
15
20
25