________________
3]
[धर्मकल्पद्रुमः देशनान्तेऽथ तैः पृष्टमभूम प्राग्भवे वयम् । कीदृशा ? येन शाकिन्याः, संकटे पतिता विभो ! ॥२८२।। सूरिणा भाषितं वत्साः !, श्रूयतां यदि कौतुकम् । प्रतिष्ठानपुरे पूर्वमासीद्विप्रो हरिभ्रमः ॥२८३॥ मन्त्रयन्त्रप्रयोगैः स, शाकिनीनां कदर्थकः । मण्डलं मण्डते यत्र, गायनास्तत्र षण्नराः ॥२८४॥ एकदा मुनिनैकेन, धर्ममार्गेण बोधिताः । चिरं धर्मरता अन्ते, कृतसंलेखना मृताः ॥२८५।। विप्रो मृत्वाऽभवत् सूरः, षडेते मण्डलाधिपाः । कर्मणः पूर्वभवजात् , पतिताः शाकिनीगृहे ॥२८६।। पश्चाद् यद्विहितो धर्मस्तस्मात्त्वं सूरभूपतिः । पूर्वाचीर्णं हि यत्कर्म, तद्भोज्यं बलवान् विधिः ॥२८७॥ श्रुत्वा पूर्वभवं स्वकीयमनघं प्राप्ताश्च जातिस्मृति, पुत्रान् न्यस्य निजे पदे सुचरणं सम्प्राप्य नाकं गताः । तद्भो भव्यजना ! मनागपि कदा पुण्ये प्रमादो न हि, कार्यो येन सदा भवन्ति सुलभाः स्वर्गापवर्गश्रियः ॥२८८॥
इति पुण्योपदेशे धृष्टकनरकथा ॥ अहो उत्तमसत्त्वानां, धर्म एवं महाधनम् । सञ्चयन्ति सदा दक्षास्तमेव निश्चलं भुवि ॥२८९॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् ॥२९०॥ यत्परलोकविरुद्धं, यल्लज्जाकरमिहैव जनमध्ये ।। अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥२९१॥ इत्थं निशम्य पुण्योपदेशनां लघुकर्मकाः । प्रबुद्धास्तत्र चारित्रं, गृह्णन्ति स्म जितस्मराः ॥२९२॥
20
25